________________
बन्धशतक प्रकरणम्
तदेवं कृता शुभाशुभप्ररूपणा । तत्र च शुभप्रकृतयो विशुद्धया उत्कृष्टरसा बध्यन्ते, अशुभास्त्वविशुद्धया इत्यनुभागबन्धस्वामित्वस्य सूचैव कृता । साम्प्रतं तु क्रमप्राप्तं तदेव न्यक्षेणोच्यते
आयवनामुज्जोयं माणुसतिरियाउयं पसत्थासु । मिच्छस्स हुंति तिव्वा सम्मद्दिट्ठिस्स सेसाओ ॥७१॥
आतपनाम उद्योतनाम मनुष्यायुः तिर्यगायुरित्येताः प्रशस्तासु प्रकृतिषु मध्ये चतस्रः प्रकृतयस्तीव्रा उत्कृष्टरसा मिथ्यादृष्टेरेव भवन्ति, न सम्यग्दृष्टेः । तथा ह्यातपोद्योततिर्यगायुषां तावत्सम्यग्दृष्टेर्बन्ध एव नास्ति, एता हि तिर्यक्ष्वेवोत्पित्सुः प्राणी बध्नाति, न च सम्यग्दृष्टिस्तेषूत्पद्यन्त इति तद्बन्धस्याप्यभावः । मनुष्यायुरपि तिर्यग्मनुष्याः सम्यग्दृष्टयो न बध्नन्ति, तेषां | तत्रोत्पत्त्यभावात् । देवनारकास्तु सम्यग्दृष्टयो मनुष्यायुर्बध्नन्ति, केवलं सङ्ख्येयवर्षायुष्कयोग्यं मध्यमरसं च । अत्र त्वसङ्ख्येयवर्षायुषां योग्यमुत्कृष्टरसं तत्प्रकृतं, तत्पुनरमी अपि न बध्नन्ति, असङ्ख्येयवर्षायुष्केष्वेतेबामुत्पत्त्यभावादतस्तेषामप्येतद्बन्धासम्भवः। तस्मात्प्रस्तुतप्रकृतिचतुष्टस्योत्कृष्टानुभागं मिथ्यादृष्टिरेव तद्बन्धकेष्वतिविशुद्धो निर्वर्त्तयति । 'सम्मद्दिट्ठिस्स सेसा उति भणितशेषा अष्टात्रिंशत् पुण्यप्रकृतयस्तीव्रा उत्कृष्टरसा सम्यग्दृष्टेरेव भवन्तीति गाथार्थः ॥७१॥
गा.-७१
२१८