________________
गा.-७०
बन्धशतकप्रकरणम्
'पंच य नाणावरणा नव दंसणमोहपयडिछव्वीसं । अस्सायं निरयाउं निरयदुर्ग तिरिदुर्ग चेव ॥१॥ इगिविगलिंदियजाई आइमवज्जा उ पंच संठाणा । संघयणा पंचेव उ असुभा वण्णाइया चउरो ॥२॥ उवघायमप्पसत्था विहगगई थावरं च सुहुमं च । अप्पज्जत्तं साहारणं च अथिरं च असुभं च ॥३॥ दुभगं नामं तह दूसरं च णादिज्ज अजसकित्ती य । नीयागोयं च तहा पंचेव य अंतरायाणि ॥४॥ एयाओ सव्वाओ बासीई हुँति पावपयडीओ । बझंते तिव्वरसा मिच्छुक्कडसंकिलेसेणं ॥५॥ इति । अत्र च विशुद्धिसङ्क्लेशप्रत्ययजन्यत्वं पूर्वोक्तमपि प्रसङ्गत उक्तमित्यदोषः ।
आह ननु शुभा द्विचत्वारिंशदुक्ता अशुभास्तु द्व्यशीतिरिति मीलिताश्चतुर्विंशत्युत्तरं प्रकृतिशतं भवति, बन्धे तु विंशत्युत्तरप्रकृतिशतमेवाधिक्रियते, तत्कथं न विरोधः ? नैवम्, अभिप्रायापरिज्ञानात्, इह हि वर्णादिचतुष्कमेकमपि सत्प्रशस्ताप्रशस्त
१. पञ्च च ज्ञानावरणानि नव दर्शन(आवरणानि) मोहप्रकृतयः षड्विंशतिः । असातं नरकायुर्नरकद्विकं तिर्यग्द्विकं चैव ॥१॥
एकविकलेन्द्रिजातयः आदिमवर्जानि तु पञ्च संस्थानानि । संहननानि पञ्चेव त्वशुभानि वर्णादीनि चत्वारि ॥२॥ उपघातमप्रशस्ता विहायोगतिः स्थावरं च सूक्ष्मं च । अपर्याप्तं साधारणं चास्थिरं चाशुभं च ॥३॥ दुर्भगं नाम तथा दुःस्वरं चानादेयमयश:कीर्तिश्च । नीच्चैर्गोत्रं च तथा पञ्चेव चान्तरायाणि ॥४|| एताः सर्वाः द्वयशीतिः भवन्ति पापप्रकृतयः । बध्यन्ते तीव्ररसाः मिथ्यादृष्टेरुत्कृष्टसङ्क्लेशेन ॥५॥
२१६