SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् 'सायं तिरिमणुदेवाउयं च नरसुरदुगाइ दो चेव । पंचेंदियजाईवि य पंचसरीराइ चउरंसं ॥१॥ संघयणादिसुभगतिअंगोवंगाई अगुरुपराघातं । सुभवन्नाइचक्कं ऊसासं आयवुज्जोयं ॥२॥ तसबायरपज्जत्तं पत्तेयथिरं सुभं च सुभगं च । सुस्सरआइज्जजसं निमेण तित्थयरमुच्चं च ॥३॥ बायालीसं एया उ चेव जाणाहि पुण्णपगईओ । बंधंति बहुरसाओ विसोहिगुणउक्कडा जीवा ॥४॥ पञ्च ज्ञानावरणानि नव दर्शनावरणानि असातं मिश्रसम्यक्त्वपुञ्जवर्जमोहषड्विंशतिर्नारकायुर्नरकद्विकं तिर्यद्विकं एकद्वित्रिचतुरिन्द्रियजातयः आद्यवर्णानि संस्थानसंहननानि अप्रशस्तवर्णादिचतुष्कम् उपघातम् अप्रशस्तविहायोगतिः स्थावरादिदशकं नीचैर्गोत्रमन्तरायपञ्चकमित्येतास्तु द्व्यशीतिप्रकृतयोऽप्रशस्ता अशुभा विज्ञेयाः । ताश्च मिथ्यादृष्टेरुत्कृष्टसंक्लेशस्य तीव्रा उत्कृष्टरसा भवन्तीति सम्बध्यते । तदुक्तम् १. सातं तिर्यङ्मनुष्यदेवायुष्कं च नरसुरद्विके द्वौ चैव । पञ्चेन्द्रियजातिरपि च पञ्च शरीराणि चतुरस्रम् ॥१॥ आदिसंहननं शुभ (ख) गतिरङ्गोपाङ्गान्यगुरुलघु पराघातम् । शुभवर्णादिचतुष्कमुच्छासमातपमुद्योतम् ॥२॥ त्रसबादरपर्याप्तं प्रत्येकं स्थिरं शुभ च सौभाग्यं च । सुस्वरादेययशः निर्माणं तीर्थकरमुच्चै (र्गोत्रं च ॥३॥ द्विचत्वारिंशदेता तु चैव जानीहि पुण्यप्रकृतयः । बध्नन्ति बहुरसाः विशोधिगुणोत्कटात् जीवाः ||४|| गा.-७० २१५
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy