SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ गा.-७० बन्धशतकप्रकरणम् जघन्योऽनुभागो भवति शुभप्रकृतीनां तद्बन्धकेषु यः कश्चित् सर्वसङ्क्लिष्टः स जघन्यमनुभागं बध्नाति, अशुभप्रकृतीनां तु यः | | कश्चित्तद्बन्धकेषु सर्वविशुद्धो भवति, स जघन्यानुभागं बध्नातीति तात्पर्यमिति गाथार्थः ॥६९॥ भा० सुभपयडिगाह सुगमा सुभा य असुभा य ता पुण इमाओ । कृता शुभाशुभभेदभिन्नानां प्रकृतीनां रसप्रत्ययप्ररूपणा, तत्र कियत्यः किं स्वरूपा वा ताः प्रत्येकं शुभाशुभप्रकृतय इति न ज्ञायते । अतस्तत्परिज्ञानार्थं प्रकृतीनां शुभाशुभप्ररूपणामाह बायालं पि पसत्था विसोहिगणउक्कडस्स तिव्वाओ। बावीसइमप्पसत्था मिच्छुव्वुडसंकिलिट्ठस्स ॥७०॥ ____ सातवेदनीयं, तिर्यङ्मनुष्यदेवायूंषि, मनुष्यद्विकं, देवद्विकं, पञ्चेन्द्रियजातिः, पञ्चशरीराणि, समचतुरस्रसंस्थानं, वज्रर्षभनाराचसंहननं, त्रीण्यङ्गोपाङ्गानि, प्रशस्तवर्णादिचतुष्कम्, अगुरुलघु, पराघातम्, उच्छासम्, आतपम्, उद्योतम्, प्रशस्तविहायोगतिस्त्रसादिदशकं, निर्माणं, तीर्थङ्करं, उच्चैर्गोत्रमिति । अपिशब्दस्यैवकारार्थत्वादेता एव द्विचत्वारिंशत्प्रकृतयः प्रशस्ताः-शुभा एताश्च विशोधिगुणेन य उत्कटः प्रकृष्टस्तस्यैव तीव्रतररसा उत्कृष्टरसा भवन्ति, तदुक्तम् २१४
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy