________________
गा.-६९
बन्धशतकप्रकरणम्
गाथार्थः ॥१८॥ भा० सेसाणं अधुवतिहुत्तरीण उक्कोसगाइचउभेओ । साइअधुवो सुगमो अणाइधुवया असिद्धे व ॥५४१॥ ।
उकोसमिइ गाहा सुगमा तह सुभसुभाण पत्तेयं । उक्कोसजहन्नणुभागो य बज्झइ केहि हेऊहिं ।।५४२॥ तदेवं साद्यादिप्ररूपणाऽवसिता । साम्प्रतं बन्धाधिकृतविंशत्युत्तरप्रकृतिशते याः प्रकृतयः शुभा याश्चाशुभास्तासां पृथक् उत्कृष्टजघन्यानुभागौ केन प्रत्ययेन केन हेतुना जन्येते इति प्रत्ययप्ररूपणामाह
सुभपयडीण विसोहीए तिव्वमसुभाण संकिलेसेणं । विवरीए उ जहन्नो अणुभागो सव्वपयडीणं ॥६९॥
अनन्तरमेव वक्ष्यमाणशुभप्रकृतीनां 'विसोहिए'त्ति विशुद्ध्या 'तिव्वो 'त्ति तीव्रमुत्कृष्टमनुभागं बनातीति गम्यते एतदुक्तं भवतिशुभप्रकृतीनां सर्वासामपि यः कश्चिद् बन्धकेष्वतिविशुद्धः स सर्वोत्कृष्टमनुभागं करोति, नान्यः । 'असुभाण सङ्किलेष्टसेणं'ति अनन्तरमेव निर्देक्ष्यमाणाशुभप्रकृतीनां तु सङ्क्लेशेन तीव्रमनुभागं बध्नातीति सम्बध्यते, तद्बन्धकेषु यः कश्चित् सर्वसङ्क्लिष्टः स एवोत्कृष्टमनुभागमेतासां बनातीत्यर्थः । 'विवरीए उ' इत्यादि उक्तवैपरीत्ये तु सर्वासां शुभाशुभप्रकृतीनां
२१३