SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ बन्धशतक गा.-६७ प्रकरणम् AAAA सज्ञिपञ्चेन्द्रियो बध्नाति, पुनरपि जघन्यतः समयादुत्कृष्टतः समयद्वयादवश्यं स एवाजघन्यं बध्नाति, पुनः कालान्तरे स एवोत्कृष्टसङ्क्लेशं प्राप्य जघन्यं बध्नातीत्येवं जघन्याजघन्येषु परावर्त्तमानानां जन्तूनामुभयत्र साद्यध्रुवतैव सम्भवतीति । 'तेयालाणमजहण्णगो बंधो 'त्ति ज्ञानावरणपञ्चकदर्शनावरणनवकमिथ्यात्वकषायषोडशकभयजुगुप्साऽप्रशस्तवर्णादिचतुष्कोपघातान्तरायपञ्चकलक्षणानां त्रिचत्वारिंशत्प्रकृतीनामजघन्यन्यानुभागः साद्यादिचतुर्विकल्पोऽपि ज्ञेयः । तथाहि-ज्ञानावरणपञ्चकचक्षुरचक्षुरवधिकेवलदर्शनावरणचतुष्कान्तरायपञ्चकलक्षणानां चतुर्दशप्रकृतीनां तावदशुभत्वात् क्षपकसूक्ष्मसम्परायश्चरमे समये जधन्यानुभागं बध्नाति, तद्बन्धकेष्वयमेव सर्वोत्कृष्टविशुद्धिमानिति कृत्वा । ततोऽन्यः सर्वेऽप्युपशमश्रेणावप्यजघन्यं प्राप्यते स चोपशान्तावस्थायां सर्वथा न भवति । तस्मादितः प्रतिपत्य बध्यमानः सादितां भजते । उपशान्तावस्थां चाप्राप्तपूर्वाणामनादिः, ध्रुवाध्रुवौ पूर्ववत् । सञ्चलनचतुष्टयस्य तूक्तहेतोरेव क्षपकानिवृत्तिबादरो यथास्वं बन्धव्यवच्छेदसमये एकैकं समयं जघन्यानुभागं बध्नाति । ततोऽन्यः सर्वोऽजघन्यस्तस्य चोपशमश्रेणौ बन्धव्यवच्छेदे कृते प्रतिपत्य पुनस्तमेव बध्नतः सादित्वं बन्धाभावस्थानं वा प्राप्तपूर्वस्यानादित्वं ध्रुवाध्रुवौ तथैव । निद्राप्रचलाऽप्रशस्तवर्णादिचतुष्कोपघातभयजुगुप्सालक्षणानां नवप्रकृतीनां क्षपकापूर्वकरणो यथास्वं बन्धव्यवच्छेदकाले एकैकं समयं जघन्यमनुभागं बध्नाति । ततोऽन्यः सर्वोऽप्यजघन्यस्तस्य चोपशमश्रेणी बन्धव्यवच्छेदं कृत्वा प्रतिप्रत्य पुनस्तमेव बनतः सादित्वं बन्धाभावस्थानं चाप्राप्तपूर्वस्यानादित्वं ध्रुवाध्रुवत्वे पूर्ववत् । चतुर्णां प्रत्याख्यानावरणानां देशविरतः संयमप्रतिपत्त्यभिमुखोऽत्यन्तविशुद्धः स्वगुणस्थानस्य चरमसमये वर्तमानो जघन्यमनुभागं २०८
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy