SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ गा.-६७ बन्धशतकप्रकरणम् AA बध्नाति । तस्मात् स्थानतः पूर्वं सर्वोऽजघन्यः । चतुर्णामप्रत्याख्यानावरणानामविरतसम्यग्दृष्टिः क्षायिकसम्यक्त्वं संयमं च । | युगपत्प्रतिपित्सुरत्यन्तविशुद्धः स्वगुणस्थानचरमसमये वर्तमानो जघन्यमनुभागं बनातीति । ततश्च पूर्वं सर्वोऽजघन्यः । स्त्यानद्धित्रिकमिथ्यात्वानन्तानुबन्धिचतुष्टयलक्षणानामष्टानां प्रकृतीनां मिथ्यादृष्टिः सम्यक्त्वं संयमं च युगपत्प्रतिपित्सुः सर्वविशुद्धो मिथ्यात्ववेदनस्य चरमसमये वर्तमानो जघन्यमनुभागं बनात्येतस्माच्चान्यत्र सर्वोऽजघन्यः । एते हि देशविरतादयस्तत्तद्बन्धकेष्वतिविशुद्धत्वाद्यथानिर्दिष्टकर्मणां जघन्यमनुभागं बध्नन्ति । ततश्च संयमादीन् गुणान् प्राप्य पुनरपि प्रतिपत्य यदाऽजघन्यानुभागं बध्नन्ति, तदाऽयमजघन्यानुभागः सादिः । एतानि च स्थानान्यप्राप्तपूर्वाणामनादिर्धवोऽभव्यानामपर्यन्तत्वादध्रुवो भव्यानां सपर्यन्तत्वादिति । तदेवं त्रिचत्वारिंशतः प्रकृतीनामजघन्यन्यानुभागो भावितः । शेषत्रिके तु किमित्याह-'सेसतिगे होइ दुविगप्पो 'त्ति भणितशेषे जघन्योत्कृष्टानुत्कृष्टानुभागत्रिके द्विविकल्पः साद्यध्रुवलक्षणो बन्धो भवति । तत्राजघन्यानुभागभणनप्रसङ्गेण सर्वासां जघन्यानुभागोऽपि सूक्ष्मसम्परायादिगुणस्थानेषु स्थानतो निर्दिष्टः । स च तत्र तत्तत्प्रथमतया बध्यमानत्वात्सादिः । क्षीणमोहाद्युपरितनावस्थासु चावश्यं न भवतीत्यध्रुवः । उत्कृष्टं त्वनुभागमेतासां त्रिचत्वारिंशतः प्रकृतीनां मिथ्यादृष्टिः सर्वोत्कृष्टसङ्क्लेश: पर्याप्तसज्ञिपञ्चेन्द्रियो बध्नात्येकं द्वौ वा समयौ यावत्ततः परं पुनरप्यनुत्कृष्टं बध्नाति, कालान्तरे च पुनरुत्कृष्टं सङ्क्लेशमासाद्योत्कृष्टानुभागं रचयतीत्येवमुत्कृष्टानुत्कृष्टानुभागेषु सञ्चरतां जन्तूनामुभयत्रापि साद्यध्रुवतैव सम्भवति, नेतरविकल्पद्वयमिति गाथार्थः ॥१७॥ २०९
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy