SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ गा.-६७ बन्धशतकप्रकरणम् मूलपयडीण भणियं सायाईवन्नणं तओ उवरि । उत्तरपयडिसु एत्तो भणामि सायाइवन्नणयं ॥५१०॥ तदेवं मूलप्रकृतीनामनुभागबन्धस्य साद्यादिप्ररूपणाकृता । साम्प्रतमुत्तरप्रकृत्यनुभागबन्धस्य तामाह अट्टण्हमणुक्कोसो तेयालाणमजहन्नगो बंधो । नेओ हि चउविगप्पो सेसतिगे होइ दुविगप्पो ॥१७॥ AAAA तेजसकार्मणशरीरद्धयं प्रशस्तवर्णगन्धरसपर्शा अगुरुलघुनिर्माणमित्येतासामष्टानामुत्तरप्रकृतीनामनुत्कृष्टोऽनुभागबन्धः साद्यादिचतुर्विकल्पोऽपि ज्ञेयो बोद्धव्यः । तथा ह्येतासामुत्कृष्टमनुभागबन्धं क्षपकापूर्वकरणो देवगतिप्रायोग्याणां त्रिंशतः प्रकृतीनां बन्धव्यवच्छेदसमये करोति । एता हि शुभप्रकृतयः अत एव तदुत्कृष्टानुभागं सर्वविशुद्ध एव रचयति, तद्बन्धकेषु त्वयमेव । सर्वविशुद्धः । एतस्मात्पुनरन्यत्रोपशमश्रेणावप्यनुत्कृष्टोऽनुभागबन्धो लक्ष्यते, स चोपशान्तमोहाद्यवस्थायां सर्वथा न भवतीति ततः प्रतिपतितैर्जन्तुभिर्बध्यमानस्सादिः, तच्च स्थानमप्राप्तपूर्वाणां सदावस्थमानत्वादनादिध्रुवोऽभव्यानामध्रुवो भव्यानामिति । 'सेसतिगे होइ दुविगप्पो'त्ति भणितशेषे उत्कृष्टजघन्याजघन्यानुभागत्रिके द्विविकल्पः साद्यध्रुवलक्षणो बन्धो भवति । तथा ह्यस्य प्रकृत्यष्टकस्योत्कृष्टानुभागबन्धोऽनन्तरमेव क्षपकापूर्वकरणे प्रोक्तः । स च तत्प्रथमतया बध्यमानत्वात्सादिः । एकं च समयं भूत्वाऽग्रेऽवश्यं न भवतीति अध्रुवः । जघन्यानुभागं त्वेतासां शुभप्रकृतित्वात् सर्वोत्कृष्टसङ्क्लेशे वर्तमानो मिथ्यादृष्टिः पर्याप्तः २०७
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy