SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् | गा.-६५ ६६ पूर्वोक्तयुक्तितोऽनुत्कृष्टः, ततश्चोपशान्तमोहावस्थायां तस्यापि बन्धो न भवति, पुनरपि च ततः प्रतिपत्य तमेव बध्नतोऽनुत्कृष्टानुभाग: सादिः । उपशान्तमोहावस्थां त्वप्राप्तपूर्वस्यानादिः अनादिकालाद् बध्यमानत्वात् । ध्रुवोऽभव्यानामपर्यन्तत्वात् । अध्रुवो भव्यानां सपर्यन्तत्वात् । ___ शेषे तूत्कृष्टजघन्याजघन्यरसे किमित्याह द्वितीयगाथायां-'सेसम्मि उ दुविगप्पो'त्ति एतत्पदं पूर्वसम्बन्धि तमप्यावृत्त्या अत्रापि सम्बध्यते, एवमुत्तरत्रापि सम्भत्स्यते । भणितशेषे उत्कृष्टजघन्याजघन्यलक्षणानुभागे द्विविकल्प: साद्यध्रुवलक्षणो बन्धो - भवति । तथा ह्युत्कृष्टमनुभागबन्धो वेदनीयनाम्नोरनन्तरमेव प्रस्तुतकर्मबन्धकेष्वतिविशुद्धत्वात् क्षपकसूक्ष्मसम्परायो बनातीत्युक्तम् । स च तत्प्रथमतया बध्यमानत्वात् सादिः । क्षीणमोहावस्थायां तु नियमान्न भविष्यतीत्यध्रुवः । जघन्यानुभागं त्वनयोः कर्मणोः सम्यग्दृष्टिमिथ्यादृष्टिर्वा मध्यपरिणामो बध्नाति । सर्वविशुद्धो ह्यतत्कर्मद्वयग्रहणगृहीतानां सातयश:कीर्त्यादिलक्षणप्रकृतीनामुत्कृष्टं स्वरूपं शुभरसं कुर्यात्, सङ्क्लिष्टस्तु असातनरकगत्यादिप्रकृतीनामुत्कृष्टस्वरूपमशुभरसं कुर्यादिति मध्यपरिणामग्रहणम् । अयं च जघन्यानुभागोऽजघन्यादवतीर्य बध्यत इति सादिः । पुनर्जघन्यतः समयादुत्कृष्टतस्तु समयचतुष्टयादजघन्यानुभागं बनतो जघन्योऽध्रुवोऽजघन्यस्तु सादिः, पुनस्तत्रैव भवे भवान्तरे वा जघन्यं बध्नतोऽजघन्योऽध्रुव इत्येवं । जघन्याजघन्यानुभाग बन्धयोः परिभ्रमतामसुमतामुभयत्र साद्यध्रुवतैव सम्भवति । 'अजहन्नमणुक्कोसो गोए अणुभागबंधम्मि'त्ति गोत्रे अनुभागबन्धे विचार्यमाणेऽजघन्योऽनुत्कृष्टश्च तद्बन्धः साद्यादिचतुर्विकल्पोऽपि भवतीत्यत्रापि उत्तरगाथायां २०२
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy