________________
गा.-६५
बन्धशतकप्रकरणम्
1-A
ध्रुवोऽभव्यानामभाविपर्यन्तत्वात् । अध्रुवो भव्यानामवश्यंभाविपर्यन्तत्वादिति । तदेवमत्राजघन्यो भावितः । शेषे तु जघन्योत्कृष्टानुत्कृष्टलक्षणेऽनुभागे द्वितीयगाथाः प्राह-'सेसम्मि उ दुविगप्पो 'त्ति भणितशेषो जघन्यादिकोऽनुभागो द्विविकल्प:-साद्यध्रुवलक्षणो बन्धो बोद्धव्यः । तथाहि-प्रकृतकर्मचतुष्टमध्ये मोहनीयस्य तावज्जघन्यानुभागः क्षपकानिवृत्तिबादरचरमसमयेऽनन्तरमेवोक्तः । शेषकर्मत्रयस्य तु क्षपकसूक्ष्मसम्परायचरमसमये असावुक्तः । स चानादिकालेऽपि पर्यटता जीवेन पूर्वं न बद्ध इति तत्प्रथमतया तत्रैव बध्यमानत्वात् सादिः । क्षीणमोहाद्यवस्थां च प्राप्तस्य नियमान्न भविष्यतीत्यध्रुवः । अनादिस्तु न भवति, पूर्वं कदाचिदपि तद्बन्धाभावात् । ध्रुवोऽप्यसौ न भवत्यभव्यानां तद्बन्धस्य दुरोत्सारितत्वादिति । उत्कृष्टानुभागं तु प्रकृतकर्मणामशुभत्वात् सर्वसङ्क्लिष्टो मिथ्यादृष्टिः पर्याप्तसज्ञिपञ्चेन्द्रिय एकं द्वौ वा समयौ यावद् बघ्नाति न परतः, स चानुत्कृष्टादवतीर्य बध्यत इति सादि: जघन्यतः समयाद्, उत्कृष्टतस्तु समयद्वयात्पुनरप्यनुत्कृष्टानुभागबन्धगतस्योत्कृष्टोऽध्रुवो भवत्यनुत्कृष्टस्तु सादिः, पुनरपि जघन्यतोऽन्तर्मुहूर्तेनोत्कृष्टतस्त्वनन्तानन्ताभिरुत्सपिण्यवप्पिणीभिरुत्कृष्टसङ्क्लेशं प्राप्योत्कृष्टाऽनुभागं बध्नतोऽनुत्कृष्टोऽध्रुवतां व्रजतीत्येवमुत्कृष्टानुत्कृष्टेषु जन्तवो भ्राम्यन्तीत्युभयत्र साद्यध्रुवत्वं सम्भवति, नेतरविकल्पद्वयमिति घातिकर्मणां जघन्यादयश्चत्वारोऽपि विकल्पाः भाविताः । साम्प्रतमघातिकर्मणां चतुरस्रान् विभावयिषुराह-'अणुक्कोसो वेयणीयनामाणं'ति वेदनीयनाम्नोरनुत्कृष्टोऽनुभागबन्धः साद्यादिचतुर्विकल्पोऽपि भवति । तथा ह्यनयोः कर्मणोः सातयश:कीर्तिलक्षणां तदन्तरगतप्रकृतिद्वयमाश्रित्य सर्वोत्कृष्टरसः क्षपकसूक्ष्मसम्परायचरमसमये प्राप्यते, ततोऽन्यः सर्वोऽप्युपशमश्रेणावपि
AAAA
२०१