________________
गा.-६५
बन्धशतकप्रकरणम्
A
ज्ञानदर्शनचारित्रदानलाभादिगुणान् घ्नन्तीत्येवंशीलानि घातीनि ज्ञानावरणदर्शनावरणमोहनीयान्तरायाणि, तेषाम-| जघन्योऽनुभागः, साद्यादिचतुर्विकल्पो भवतीति द्वितीयगाथायां सम्बन्धः, कर्मणां हि रसो यस्मादन्यो हीनो नास्ति स| सर्वजघन्यस्तत ऊर्ध्वमेकं रसांशमादौ कृत्वा यावत् सर्वोत्कृष्टं तावत् सर्वोऽप्यजघन्य इति । अनन्तभेदभिन्नोऽप्यसौ जघन्याजघन्यप्रकारद्धयेन क्रोडीकृतः । तथा यस्मादन्योऽधिको न बध्यते स उत्कृष्टस्तत एकरसांशहानिमादौ कृत्वा यावत्सर्वजघन्यस्तावत्सर्वोऽप्यनुत्कृष्ट इति । अनेन वा प्रकारद्वयेन अनन्ता अपि रसविशेषाः सङ्ग्रहीताः । तत्र निर्दिष्टस्वरूपस्य कर्मचतुष्टयस्य सम्बन्धी अजघन्यो रसः साद्यादि चतुर्विकल्पोऽपि भवति । तथा ह्यशुभप्रकृतीनां सर्वजघन्यं शुभप्रकृतीनां तु सर्वोत्कृष्टमनुभागं यः कश्चित् तद्बन्धकेषु सर्वविशुद्धः स एव निवर्त्तयति, तत्र ज्ञानदर्शनावरणान्तरायलक्षणकर्मत्रयस्याशुभत्वात् क्षपकः सूक्ष्मसम्परायश्चरमसमये जघन्यं रसं निवर्त्तयति, तद्बन्धकेष्वयमेवातिविशुद्ध इति कृत्वा । मोहनीयस्य त्वनिवृत्तिबादरमेव यावद् बन्धो भवतीति स एव क्षपकश्चरसमयेऽस्य जघन्यं रसमुपकल्पयतीति, तद्बन्धकेष्वस्यैवातिविशुद्धत्वात् । इतश्च स्थानादन्यत्र सर्वत्रोपशमश्रेणावपि प्रकृतकर्मचतुष्टयस्यानुभागोऽजघन्य एव बध्यते, उपशमकानामपि क्षपकेभ्यो विशुद्ध्या अनन्तगुणहीनत्वात् । ततश्चोपशान्तमोह: सूक्ष्मसम्परायश्च यथा निर्दिष्टप्रकृतकर्मचतुष्टयसम्बन्धिनोऽजघन्यानुभागस्याबन्धको भूत्वा प्रतिपत्य यदा पुनस्तं बध्नाति, तदा अयमजघन्यानुभाग: सादिर्भवति, बन्धव्यवच्छेदे कृते तत्प्रथमतया बध्यमानत्वात् । यैस्तूपशान्तमोहाद्यवस्था नाद्यापि प्राप्ता तेषामनादिकालादारभ्याविच्छिन्नं बध्यमानत्वादनादिः ।
२००