________________
गा.-६५
बन्धशतकप्रकरणम् |
AAAA AAAA
सम्बन्धः । तथा 'सेसम्मि उ दुविगप्यो 'त्ति एतदपीह सम्बध्यते, भणितशेषे जघन्योत्कृष्टपक्षद्वये द्विविकल्पः साद्यध्रुवरूपो बोद्धव्यः । तत्रोत्कृष्टानुत्कृष्टावनुभागबन्धौ प्रत्येकं द्विचतुर्विकल्पौ यथा वेदनीयनाम्नोस्तथा निर्विशेषं भावनीयौ । इदानीं जघन्याजघन्यौ भाव्यते । तत्र कश्चित्सप्तमनरकपृथ्वीनारकः सम्यक्त्वाभिमुखो यथाप्रवृत्तादीनि त्रीणि करणानि कृत्वा मिथ्यात्वस्यान्तरकरणं करोति । तस्मिश्च कृते मिथ्यात्वस्य स्थितिद्वयं भवत्यन्तर्मुहूर्तप्रमाणाधस्तनी शेषा तूपरितनी । स्थापना । तत्र चाधस्तनी स्थिति प्रतिसमयं वेदयन्यस्मादनन्तरसमये सम्यक्त्वं प्राप्स्यति, तत्र चरमे समये वर्तमानो नीचैर्गोत्रमाश्रित्य गोत्रकर्मणो जघन्यानुभागं बध्नाति, अन्यस्थानवर्ती ह्येतावत्यां विशुद्धौ वर्तमान उच्चैर्गोत्रमजघन्यानुभागान्वितं बध्नीयादिति शेषपरिहारेण सप्तमपृथ्वीनारकस्य ग्रहणम् । अयं हि यावत्किञ्चिदपि मिथ्यात्वमस्ति तावद्भवप्रत्ययेनैव तिर्यक्प्रायोग्यं नीचैर्गोत्रं च बध्नाति । स चान्यदा बहुमिथ्यात्वावस्थायामजघन्यरसं निवर्तयति, प्राप्तसम्यक्त्वोऽप्युच्चैर्गोत्रस्याजघन्यानुभागं बध्नातीति तबन्धकेष्वतिविशुद्धत्वाद्यथोक्तविशेषणविशिष्टस्य सम्यक्त्वाभिमुखस्य ग्रहणम् । अयं च जघन्यानुभागस्तत्प्रथमतया बध्यमानत्वात्सादिर्लब्धसम्यक्त्वस्तु स एवोच्चैर्गोत्रमाश्रित्याजघन्यानुभागं रचयतीति जघन्योऽध्रुवोऽजघन्यानुभागस्तु सादिस्तच्च स्थानमप्राप्तपूर्वस्यानादिः, अभव्यानां ध्रुवो भव्यानामध्रुव इति जघन्याजघन्यानुभागौ गोत्रकर्मणः प्रत्येकं द्विचतुर्विकल्पाविति । 'आउचउक्केवि दुविगप्पो'ति आयूंषि नारकतिर्यग्मानुष्यदेवायुष्करूपाणि तेषां चतुष्केऽपि साद्यध्रुवलक्षणो द्विविकल्पो बन्धो भवति । तथा ह्यनुभूयमानायुस्त्रिभागादौ प्रतिनियतकाल एवायुषो बध्यमानत्वात्सादित्वात्तदनुभागस्यापि जघन्यादिरूपस्य
२०३