________________
गा.-६४
बन्धशतकप्रकरणम्
कटुकतमस्त्रिस्थानिकः । स एव भागत्रये आवर्तिते चतुर्थे त्ववशेषेऽतिशयकटुकतमश्चतुस्स्थानिकोऽभिधीयते । अत्र चैकस्थानिकः सहजरसो जललवबिन्दुचुलुकार्द्धचुलुकप्रसृत्यञ्जलिकरककुम्भद्रोणादिसम्बन्धान्मन्दमन्दतरादिबहुभेदत्वं प्रपद्यते । एवं द्विस्थानिकादिकेष्वपि बहुभेदत्वं भावनीयम् । एवमेवाशुभप्रकृतीनां रसस्यैकस्थानिकादित्वं मन्तव्यम् । शुभप्रकृतिरसस्तु सैरिभिक्षीरेक्ष्वादिरसतुल्यत्वेन तदृष्टान्ताद् भावनीयः । यथाहीक्षुक्षीरादिरसः सहजोऽर्द्धावर्तितो द्विभागावर्ती भागत्रयावर्त्तश्चतुर्भागावर्त्तश्च यथासङ्ख्यं मधुरो मधुरतरो मधुरतमोऽतिमधुरतमश्च सन्नेकद्वित्रिचतुस्स्थानिक उच्यते । अयमपि पूर्ववज्जलप्रक्षेपाद् बहुभेदत्वं प्रतिपद्यते, एवं शुभप्रकृतिरसोऽप्येकस्थानकादिरसभेदो वाच्य इति ।
ननु कर्मतया समानेष्वपि पुद्गलेषु कुतः शुभाशुभादिरसवैचित्र्यम् ? उच्यते, अध्यवसायविशेषात् । यथा हि निम्बाद्यशुभरसस्वरूपात् क्षीरादिशुभरसस्वरूपाच्चाधिश्रयणविशेषात्तन्दुला रसवैचित्र्यं प्रपद्यन्ते, तथा पुद्गलेष्वप्यध्यवसायविशेषात्तद्वैचित्र्यं भावनीयम् । भा० अह भन्नइ अणुभागो रसो त्ति इह सव्व एव जीवो उ । सिद्धाणणंतभागे अभव्वजियणंतगुणिएहि ॥४५५।।
परमाणूहि निप्पन्नाओ गिण्हइय कम्मखंधाओ । तत्थ य पडिपरमाणुं करेइ अणुभागपलिछेयं ॥४५६॥ सव्वकसायविसेसे सव्वजीवाणणंतगुणिए उ । तत्थय केवलिपन्नाए छिज्जमाणो उ किर जो उ ॥४५७॥ परमनिकिट्ठो अणुभागअंसओ किर अईव सुहुमतया । अद्धं न देइ सो इह भणिओ अविभागपलिछेओ ॥४५८॥
१९७