________________
बन्धशतक प्रकरणम्
इदानीमनुभागबन्धस्यावसरोऽनुभागो रसोऽनुभाव इत्यनर्थान्तरं तस्यानुभावस्य किं तावत् स्वरूपमित्युच्यते । इह हि गम्भीरभवाम्भोधिमध्यविपरिवर्त्ती रागादिसचिवो जन्तुः पृथक्सिद्धानामनन्तभागवर्त्तिभिरभव्येभ्योऽनन्तगुणैः परमाणुभिर्निष्पन्नान् स्कन्धान् प्रतिसमयं गृह्णाति । तत्र च प्रतिपरमाणुकषायविशेषात् सर्वजीवानन्तगुणाननुभागस्याविभागान् पलिच्छेदान् करोति । केवलिप्रज्ञया छिद्यमानो यः परमनिकृष्टोऽनुभागांशोऽतिसूक्ष्मतयाऽद्धं न ददाति सोऽविभागपलिच्छेदः । तदुक्तम्
'बुद्धीए छिज्जमाणो अणुभागंसो ण देइ जो अद्धं । अविभागपलिच्छेओ सो इह अणुभागबंधम्मि ॥ १ ॥
तत्र समानरसांशानां परमाणूनामेका वर्गणा, एकेन तु रसांशेनाधिकानां द्वितीया वर्गणेत्यादिवर्गणास्पर्द्धकक्रमेण यथाऽयमनुभागः पूर्वमनिवृत्तिबादरगुणस्थाने अत्रैवोक्तस्तथा द्रष्टव्यः । अयं चानुभागो द्विधा भवति, वक्ष्यमाणशुभप्रकृतीनां सम्बन्धी शुभ, अशुभप्रकृतीनां तु सम्बन्धी अशुभः । पुनरेकद्वित्रिचतुस्थानिकभेदादुभयरूपोऽपि चतुर्द्धा । तत्राशुभो घूसेडिकानिम्बादिरसतुल्यत्वेन दृष्टान्ताद् भावनीयः । यथाहि -घूसेडिकापिचुमन्दाद्यशुभवनस्पतीनां सम्बन्धी सहजोऽक्वथितः कटुको रस एकस्थानिक उच्यते । स एव क्वथितोऽर्द्धावर्त्तितः कटुकतरो द्विस्थानिकः । स एव भागद्वये आवर्तिते तृतीयभागे त्ववशेषे
१. बुद्ध्या छिद्यमानोऽनुभागांशो न ददाति योऽर्द्धम् । अविभागः पलिच्छेदः स इहानुभागबन्धे ॥१॥
२. घोषातकी ।
गा. - ६४
१९६