________________
गा.-६४
बन्धशतकप्रकरणम्
तेऽपीहोपेक्षिताः । 'आउगाणमण्णयरो'त्ति अन्यतरशब्देनेह सज्ञि असज्ञि वा प्रक्रमाल्लभ्यते । ततश्चतुर्णामायुषां सञ्ज्ञि असज्ञि वा जघन्यां स्थितिं करोति । तत्र नारकदेवायुषोः पञ्चेन्द्रियतिर्यग्मनुष्याः, मनुष्यतिर्यगायुषोस्तु एकेन्द्रियादयो जघन्यस्थितिकर्त्तारो द्रष्टव्याः । 'सेसाणमित्यादि, भणितशेषप्रकृतीनामेकेन्द्रियो बादर: पर्याप्तस्तद्बन्धकेषु सर्वविशुद्धः, पल्योपमाऽसङ्ख्येयभागहीनसागरोपमद्विसप्तभागादिकां जघन्यां स्थिति करोति । अन्ये ह्येकेन्द्रियास्तथाविधविशुद्ध्यभावाद् बहुतरां स्थिति मुपकल्पयन्ति । विकलेन्द्रियपञ्चेन्द्रियेषु तु शुद्धिरधिकाऽपि लक्ष्यते । केवलं तेऽपि स्वभावादेव प्रस्तुतकर्मणां महती स्थितिमुपचरयन्तीति शेषपरिहारेण यथोक्तैकेन्द्रियस्यैव ग्रहणमिति गाथार्थः ॥६४॥
॥ इति स्थितिबन्धः समाप्तः ॥ भा० छन्हमणेण विउव्वियछक्कं तहि तिरिपणिदि असन्नी । पज्जत्तीपज्जत्तो पकरेइ जहन्नठिइबंधं ॥४५०॥
नरगदुगं तज्जोगियविसुद्धकम्मो उ सेसचउगं ति । सव्वविसुद्धो बंधइ सुरनरयगईण पाओगं ॥४५१॥ इय कम्मछगं एयं च नरयसुरअमणमणुय इगविगला । नो बंधती ते जेण सग्गनरएसु नो जंति ॥४५२॥ तिरियमणुया उ सन्नी इय कम्मछगस्स ठीइ मज्झिमयं । उक्कोसं वा पकरंति तेण ते चेत्थ नो गहिया ॥४५३॥ आऊणं अन्नयरो असन्नि सन्नी य पकरइ जहन्नं । ठीबंधं ठीबंधं दारं एयंपि सम्मत्तं ॥४५४॥
॥ ठीबंधो सम्मत्तो ॥
१९५