________________
गा.-६२
बन्धशतकप्रकरणम्
स्थितिरपि वैचित्र्यं प्राप्नोतीति, तदयुक्तम्, तानि ह्येकस्थितिजनकान्यपि सन्ति क्षेत्रकालानुभाग[योग] योगादिवैचित्र्या| द्विचित्राण्युच्यन्ते, न स्थितिमाश्रित्य, तेषामेकस्थितिजनकत्वाविशेषेण वैचित्र्यासिद्धरित्यलं विस्तरेण ! प्रकृतमुच्यते-इह सर्वोत्कृष्टस्थितिजनकानि चरमपङ्क्तिनिर्दर्शितानि यानि स्थितिबन्धाध्यवसायस्थानानि तेषां मध्ये यच्चरमाध्यवसायस्थानं तदुत्कृष्टसङ्क्लेश उच्यते, इह तेषामेवाद्यमीषत् उच्यते, उभयान्तरालवर्तीनि तु मध्यमानि, ततश्चैतैरीषन्मध्यमोत्कृष्टैः स्थितिबन्धाध्यवसायस्थानैरुत्कृष्टा स्थितिर्बध्यते । अथवा चरमस्थितिबन्धाध्यवसायस्थानमुत्कृष्टसङ्क्लेश उच्यते । शेषाणि तु
चरमपङ्क्तिनिदर्शितानि स्थितिबन्धाध्यवसायस्थानानि ईषन्मध्यमान्युच्यन्ते । तैश्चरमपङ्क्तिनिदर्शितैः सर्वोत्कृष्टस्थितिजनकैः | सर्वैरपि स्थितिबन्धाध्यवसायस्थानैरुत्कृष्टा स्थितिजन्यत इति भाव इति गाथार्थः ॥६२॥ भा० सेसाणं दुगनउई पयडीणं चउगइण जीवा ॥४३७॥
उक्कोसठिई बंधंति तत्थ धुवसत्तचत्तपुव्वुत्तं । तीए तह अधुवाणं मझे अस्साअड्सोगं ॥४३८॥ नपुपंचिंदियजाई हुंडं परघायुसासअसुभा य । विहगगइतसचउअथिरछक्कं नियगोत्त इय वीसं ॥४३९॥ एयासि पिय पगईण सव्वउक्ट्ठिसंकिलेसेण । उक्विट्ठठिड़ मिच्छा चउगइया वि य निबंधंति ॥४४०॥ सेसाण अधुवबंधीण सायहासइनरदुगपुमित्थी । अंतिमवज्जासंघयणपंचपंचेव संठाणे ॥४४१॥ सुभविहगइथिरछगउच्चगोयएयाउ हुंति पणवीसं । एयासि तज्जोगाइसंकिलिट्ठ उ उक्कोसं ॥४४२॥
१९२