________________
बन्धशतक प्रकरणम्
स्थानानि भवन्ति । एतैश्च सर्वैरप्येकैव जघन्या स्थितिर्नानाजीवान् कालभेदेनैकं वा जीवमाश्रित्य जन्यते, पृथगनेकशक्त्युपेतबहुपुरुषैर्वारावारकेण निर्वर्त्त्यमानकटाद्येककार्यवत् । ततः समयोत्तरां स्थितिं यानि निर्वर्त्तयन्ति, तान्यपि यथोत्तरं विशेषवृद्धान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यन्यानि स्थितिबन्धाध्यवसायस्थानानि भवन्ति । केवलं पूर्वेभ्यो विशेषाधिकानि । ततो द्विसमयोत्तरां स्थिति निर्वर्त्तयन्ति यानि तान्यनन्यतरेभ्योऽपि विशेषाधिकानि । त्रिसमयाधिकां तु तां निवर्त्तयन्ति यानि तानि तेभ्योऽपि विशेषाधिकानि । चतुस्समयाधिकां तु निवर्त्तयन्ति यानि तानि तेभ्योऽपि विशेषाधिकानि । एवं तावन्नेयं यावत्सर्वोत्कृष्टां स्थिति यानि निवर्त्तयन्ति तान्यपि समयोनोत्कृष्टस्थितिजनकाध्यवसायस्थानेभ्योऽप्यन्यानि विशेषाधिकानि असङ्ख्येयलोकाकाशप्रदेशप्रमाणानि यथोत्तरं विशेषवृद्धानि स्थितिबन्धाध्यवसायस्थानानि भवन्ति । एतानि स्थाप्यमानानि विषमचतुरस्रं क्षेत्रमास्तृणन्ति । तद्यथा - ....... तत्र प्रथमपङ्क्तावप्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि द्रष्टव्यानि किन्त्व
00000000
00000
00000
0000
सत्कल्पनया चतु: सङ्ख्यात्वेन दर्शितानि । द्वितीयादिपङ्क्तिषु तान्येव विशेषाधिकानीति पञ्चादित्वेन दर्शितानि, एताश्चैवं | पङ्क्तयो जघन्यायाः स्थितेरारभ्य यावदुत्कृष्टा स्थितिस्तावत् ये समया भवन्ति, तावत् प्रमाणा असङ्ख्येया द्रष्टव्याः, असत्कल्पनया च पञ्च दर्शिताः ।
तत्रैतत् स्यात्-इहैकस्थितजनकान्यप्यध्यवसायस्थानानि असङ्ख्येयानि परस्परं विचित्राण्यभ्युपगम्यन्ते, तद्वैचित्र्याभ्युपगमे च
गा.-६२
१९१