________________
गा.-६२
बन्धशतकप्रकरणम्
सेसाणं चउगइया ठिउमुक्कोसं करेंति पयडीणं । उक्कोससंकिलेसेण ईसिअहमज्झिमेणावि ॥१२॥
भणितचतुर्विंशतिप्रकृतिभ्यः शेषद्विनवतिप्रकृतीनां मिथ्यादृष्टयश्चतुर्गतिका अप्युत्कृष्ट स्थितिं बध्नन्ति । तत्रैतासु मध्ये पूर्वं "उत्तरपयडीसु तहा धुविगाणं बंधचउविगप्पो य" इत्यादि गाथाविवरणस्वरूपाणां ध्रुवबन्धिनीनां सप्तचत्वारिंशत्प्रकृतीनामपि मध्ये, तथाऽध्रुवबन्धिनीनामपि मध्येऽशातारतिशोकनपुंसकवेदपञ्चेन्द्रियजातिहुण्डपराघातोच्छ्वासाशुभविहायोगतित्रसबादरपर्याप्तप्रत्येकास्थिराशुभदुःस्वरदुर्भगानादेयायश:कीर्तिनीचैर्गोत्रलक्षणानां विंशतेः प्रकृतीनां सर्वोत्कृष्टसङ्क्लेशेनोत्कृष्टां स्थिति चतुर्गतिका अपि मिथ्यादृष्टयो बध्नन्ति । शेषाणां त्वध्रुवबन्धिनीनां सातहास्यरतिस्त्रीपुंवेदमनुष्यद्विकसेवार्त्तवय॑संहननपञ्चकहुण्डवय॑संस्थानपञ्चकशुभविहायोगतिस्थिरादिषट्कोच्चैर्गोत्रलक्षणानां पञ्चविंशतिप्रकृतीनां तद्बन्धकेषु सर्वसक्लिष्टास्त | एवोत्कृष्टां स्थिति रचयन्ति, तत्प्रायोग्यसङ्क्लिष्टा इत्यर्थः । ननु कैः स्थितिबन्धाध्यवसायस्थानैरियमुत्कृष्टा स्थितिनिर्वय॑त । इत्याह-'उक्कोससंकिलेसेणे'त्यादि, इह सङ्क्लेशशब्देन स्थितिबन्धाद्यवसायस्थानमुच्यते । ततश्चेदमुक्तं भवति-इह ज्ञानावरणादिकर्मणः सर्वजघन्याया अपि स्थितेनिवर्त्तकानि यथोत्तरं विशेषवृद्धान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि स्थितिबन्धाध्यवसाय
१. गाथा ४१ ।
१९०