________________
गा.-६०
बन्धशतकप्रकरणम्
मिथ्यादृष्टिस्तु कश्चित्तथाविधविशुद्ध्यादिसामग्रीवशात् प्रस्तुतायुयं बनातीत्यलं विस्तरेण ! तत्त्वमिह केवलिनो विदन्तीति । अतिप्रसङ्गे सत्यपवादमाह-'आहारगे'त्यादि आहारकशब्देनाहारकद्वयं गृह्यते । ततश्चाहारकद्विकं तीर्थकरनाम चासौ संयमसम्यक्त्वरहितत्वान्न बध्नाति । देवायुष्कमपीहोत्कृष्टं प्रकृतम्, तच्चानुत्तरसुरयोग्यं संयमिन एव बध्नन्ति, न मिथ्यादृष्टिरिति । एतानि चत्वारि वर्जयित्वा शेषषोडशोत्तरशतस्यैव कर्मणामुत्कृष्टस्थितिबन्धको मिथ्यादृष्टिर्भवतीति गाथार्थः ॥५९॥
भा० ठीबंधस्सामित्तं तहि सव्वुपभिइचऊहि गाहाहिं । उक्कसठ्ठिइसामित्तं भणेइ सुगमं च तं किं तु ॥४१३॥ यद्येवं तर्खेतासामाहारकादिप्रकृतीनां क उत्कृष्टस्थितिबन्धकः ? इत्याह
देवाउयं पमत्तो आहारगमप्पमत्तविरओ उ ।
तित्थयरं च मणूसो अविरयसम्मो समज्जेइ ॥६०॥ इह पूर्वकोट्यायुः प्रमत्तसंयतोऽप्रमत्तभावाभिमुखो वेद्यमानपूर्वकोटिलक्षणायुषो भागद्वये गते तृतीयभागस्यादिसमये उत्कृष्टस्थितिकं पूर्वकोटित्रिभागाधिकत्रयस्त्रिंशत्सागरोपमलक्षणं देवायुर्बध्नाति । पूर्वकोटिभागस्य च द्वितीयादिसमयेषु बनतोऽनुत्कृष्टं लभ्यते, अबाधायाः परिगलिततत्वेन मध्यमत्वप्राप्तेरित्यादिसमयग्रहणम् ।
१. 'नो' सि ।
A.A.AALAAAAAAAAAAAAAAAAAAAAAA
१८३