SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ गा.-५९ बन्धशतकप्रकरणम् सव्वुक्कोसठिइणं मिच्छद्दिट्टी उ बंधगो भणिओ । आहारगतित्थयरं देवाउं वावि मोत्तूणं ॥५९॥ सर्वासां मूलप्रकृतीनामुत्तरप्रकृतीनां च या उत्कृष्टा स्थितयस्तासां सर्वपर्याप्तिपर्याप्तः शुभाशुभप्रकृतीनामात्मीयात्मीयबन्धकाले सर्वसङ्क्लिष्टो मिथ्यादृष्टिर्बन्धको भणितः, तीर्थकरगणधरैरिति । स्थितिर्हि पूर्वमशुभा प्रोक्ता, सङ्क्लेशप्रत्यया च । सङ्क्लिष्टश्च सर्वबन्धकेषु मध्ये मिथ्यादृष्टिरेव भवतीति भावः । अत्र च प्रायोवृत्त्या सर्वसङ्क्लिष्टत्वमुच्यते । यावता | तिर्यग्मनुष्यायुषी उत्कृष्ट तत्प्रायोग्यविशुद्धौ बध्नातीति द्रष्टव्यम्, तयोः शुभस्थितिकत्वेन विशुद्धिजन्यत्वस्यानन्तरमेवोक्तत्वात् । अत्राह-ननु यदि विशुद्धित इदमायुष्कद्वयं बध्यते, तर्हि मिथ्यादृष्टेः सकाशात् सास्वादनो विशुद्धतरः प्राप्यते, स कस्मादेतद्बन्धकत्वेन नोक्तः ? न च वक्तव्यं, तिर्यङ्मनुष्यायुषी सास्वादनो न बध्नाति, तद्बन्धस्य बन्धस्वामित्वादिष्वस्यानुज्ञातत्वात्, तस्मादिदमाचार्यस्याप्येकं स्खलितमिव लक्ष्यते, नैतदेवम्, सत्यामपि हि सामान्यायां मनुष्यतिर्यगायुर्बन्धानुज्ञायामसङ्ख्येयवर्षायुष्कयोग्यमुत्कृष्टं प्रस्तुतायुर्द्वयं सास्वादनो न निवर्तयिष्यते, अस्य गुणप्रतिपाताभिमुखत्वेन गुणाभिमुखविशुद्धमिथ्यादृष्टेः सकाशात् विशुद्ध्याधिक्यस्यानवगम्यमानत्वाच्छास्त्रान्तरेऽपि च मिथ्यादृष्टेः सकाशादविरतादय एव यथोत्तरमनन्तरगुणविशुद्धाः पठ्यन्ते, नायम् । किञ्चैतद्वचनान्यथानुपपत्तेरपि प्रस्तुतमायुर्द्वयमुत्कृष्टस्थितिकं सास्वादनो न बध्नाति । १८२
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy