________________
बन्धशतक प्रकरणम्
सव्वणिमुक्कोसगो उ उक्कोससंकिलेसेणं । विवरीए उ जहन्नो आउगतिगवज्जसेसाणं ॥ ५८ ॥
सर्वासां ज्ञानावरणादिमूलप्रकृतिस्थितीनां मतिज्ञानावरणाद्युत्तरप्रकृतिस्थितीनां चोत्कृष्टस्थितिबन्धः उत्कृष्टसङ्क्लेशेनैव बध्यते । एतदुक्तं भवति-इह ये ये विवक्षितमूलोत्तरप्रकृतीनां बन्धकास्तेषु मध्ये यो यः सर्वोत्कृष्टसङ्क्लेशः स तत्तद्विवक्षितकर्मस्थितिबन्धं सर्वोत्कृष्टं रचयति एतच्च बन्धस्वामित्वप्रतिपादकानन्तरगाथासु सर्वं व्यक्तीभविष्यतीति । ‘विवरीए उ जहण्णो 'ति । इह भणितात्सर्वोत्कृष्टसङ्क्लेशाद्विपरीते सर्वविशुद्धिर्भवति, तस्यां सत्यां स्थितिबन्धो जघन्यो भवति । इदमुक्तं भवति, इह ये ये विवक्षितमूलोत्तरप्रकृतीनां बन्धकास्तेषां मध्ये यो यः सर्वोत्कृष्टविशुद्धियुक्तः स तत्तद्विवक्षितकर्मस्थितिबन्धं सर्वजघन्यं करोति । किं सर्वत्रायमेव न्याय: ? नेत्याह, अन्तरोक्तमायुस्त्रिकं तिर्यग्मनुष्यदेवायुर्लक्षणं मुक्त्वा शेषप्रकृतीनां प्रकृष्टसङ्क्लेशविशुद्धिभ्यां स्थित्युपचयापचयौ द्रष्टव्यौ । प्रस्तुतायुस्त्रयस्य तु तद्बन्धकेषु सर्वोत्कृष्टविशुद्धिरुत्कृष्टं स्थितिबन्धं करोति । सर्वसङ्क्लिष्टस्तु सर्वजघन्यमिति विपरीतं द्रष्टव्यमिति गाथार्थः ॥ ५८॥
भा० सव्वगाहाए पच्चयपरूवणा पच्चओ य संकेसो । जेट्टेयरेहि दुविहो सेसं सुगमं अह भइ ॥ ४१२ ॥ उक्ता प्रत्ययप्ररूपणा । साम्प्रतं कासां स्थितीनां बन्धे कः स्वामीति निरूपणार्थमाह
गा.-५८
१८१