________________
बन्धशतक
गा.-५७
प्रकरणम्
नियमाद्वर्द्धन्ते तदपचये त्वपचीयन्त इत्येकान्तेन कषायस्वरूपानुविधायित्वादशुभा उच्यन्त इति । अथवा शुभप्रकृतीनां यथा यथा स्थितिवर्द्धते तथा तथा शुभरसो हानि याति, परिगालितरसेक्षुयष्टिकल्पानि शुभकर्माणि भवन्तीत्यर्थः । अशुभप्रकृतीनां तु स्थितिवृद्धौ तत्सम्बन्धी अशुभरसो वर्द्धत इत्यतोऽपि कारणात् स्थितीनाम् अशुभत्वं तदृद्धः शुभरसक्षयहेतुत्वादशुभरसवृद्धि| हेतुत्वाच्चेत्यलं विस्तरेण । अनुभागस्तु शुभोऽशुभश्च वक्ष्यत इति भावः । अत्र स्थितीनामशुभत्वेऽतिप्रसङ्गमालोक्याह'माणुसे'त्यादि मनुष्यतिर्यग्देवायुषां स्थितिं मुक्त्वा शेषस्थितीनामेवाशुभत्वं द्रष्टव्यम् । एतत्स्थितिः पुनः शुभैव भवतीत्यर्थः, विशुद्धिलक्षणस्य तत्कारणस्य शुभत्वान्मनुष्यतिर्यगायुषोर्हि वृद्धिस्त्रिपल्योपमावसाना, देवायुषस्तु वृद्धिस्त्रयस्त्रिंशत्सागरोपमावसाना, विशुद्धितारतम्यादेव भवतीत्यतो मनुष्यतिर्यग्देवायुः स्थितिः शुभा, शुभकारणप्रभवत्वाच्छुभद्रव्यनिष्पन्नघृतपूर्णादिद्रव्यवदिति । अथवा प्रस्तुतायुष्कत्रयस्थितिवृद्धौ रसोऽपि वर्द्धते, स च शुभः, सुखजनकत्वादित्यतोऽपि प्रस्तुतायुष्कस्थितेः शुभत्वम्, तदृद्धः शुभरसवृद्धिहेतुत्वादिति गाथार्थः ॥५७॥ भा० सुभअसुभाणं पि हुँति असुभाओ इय पयस्स एसत्थो । असुभा कसायउदया ही वुड्डीहाणिओ हुंति ॥४०९॥
जेणं असुभसुभाणं पयडीण ठिईकसायवुड्डीए । वट्टते तासिं अवचए उ ताओ विहीयंति ॥४१०॥
ईसव्वपयारेहिं अधुव्वअसुभक्कसायबंधणओ । सव्वाओ वि ठिईओ असुभाओ च्चिय ईह भवंति ॥४११॥ तदेवं शुभाशुभप्ररूपणा अवसिता । साम्प्रतं प्रत्ययनिरूपणार्थमाह
१८०