________________
गा.-५७
बन्धशतकप्रकरणम्
तदेवं कर्मस्थितेः साद्यादिप्ररूपणा कृता । साम्प्रतं तस्या एव शुभाशुभप्ररूपणां विभागेनाह
सव्वासिं पि ठिईओ सुभासुभाणं पि होति असुभाओ । माणुसतिरिक्खदेवाउयं च मोत्तूण सेसाणं ॥५७॥
सर्वासां शुभानामशुभानां च प्रकृतीनां स्थितयोऽशुभा एव भवन्ति, सङ्क्लेशलक्षणस्य तत्कारणस्याशुभत्वात्, स्थितीनां हि कारणं सङ्क्लेश एव कषायोदय इत्यर्थः । ""ठिई अणुभागं कसायओ कुणइ" इति वचनात् । ततश्चैवमुक्तं भवति | सर्वासां शुभानामशुभानां च प्रकृतीनां स्थितयः सङ्क्लेशवृद्धौ वर्द्धन्ते, तदपचये त्वपचीयन्त इत्यन्वयव्यतिरेकाभ्यां सङ्क्लेशमेव स्थितयोऽनुबध्नन्तीत्यशुभाः अशुभकारणत्वादशुभद्रव्यनिष्पन्नघृतपूर्णादिद्रव्यवत् ।
ननु यद्येवं “ठिड् अणुभागं कसायओ कुणति''इत्यत्रानुभागोऽपि कषायजन्य एवोक्तः, ततश्चायमप्यशुभकारणत्वादशुभ एव प्राप्नोति ? नैवम्, अभिप्रायापरिज्ञानात्, सत्यपि हि कषायजन्यत्वेऽनुभागः कषायवृद्धावशुभप्रकृतीनामेव वर्द्धते, शुभानां तु हीयते । कषायमन्दतया तु रसः शुभानां वर्द्धते, अशुभानां तु हीयते । स्थितयस्तु शुभानामशुभानां च प्रकृतीनां कषायवृद्धौ
१. 'स्थित्यनुभागं कषायात् करोति ।'