SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ गा.-६० बन्धशतकप्रकरणम् अप्रमत्तभावाभिमुखता विशेषणं तर्हि किमर्थमिति चेत् ? उच्यते, शुभेयं स्थितिविशुद्ध्या बध्यते, सा चास्याप्रमत्तभावाभिमुखस्यैव लभ्यत इति । तॉप्रमत्त एव कस्मादेतद्बन्धकत्वेन नोच्यत इति चेत् ? उच्यते, अस्यायुर्बन्धारम्भनिषेधात्, प्रमत्तनवारब्धमायुर्बन्धमप्रमत्तः कदाचित्समर्थयत इत्युक्तत्वादिति । आहारकद्विकस्य त्वप्रमत्तयतिः प्रमत्तभावाभिमुख उत्कृष्टां स्थिति रचयति । अशुभा हीयं स्थितिरित्युत्कृष्टसङ्क्लेशेनैवोत्कृष्टा बध्यते, तद्बन्धकश्चाप्रमत्तः प्रमत्तभावाभिमुख एवोत्कृष्टसङ्क्लेशयुक्तो लभ्यत इतीत्थं विशिष्यत इति । तीर्थंकरनाम्नस्त्वविरतसम्यग्दृष्टिर्मनुष्यः पूर्वं नरकबद्धायुष्को नरकं जिगमिषुरवश्यं मिथ्यात्वं यत्र समये प्रतिपद्यते, ततोऽनन्तरेऽर्वाक् स्थितिबन्धे उत्कृष्टां स्थिति समर्जयति-बध्नाति । तीर्थकरनाम्नो ह्यविरतादयोऽपूर्वकरणावसाना बन्धका भवन्ति, किन्तूत्कृष्टा स्थितिरुत्कृष्टसङ्क्लेशेन बध्यते । स च तीर्थकरनामबन्धकेष्वविरतस्यैव यथोक्तविशेषणविशिष्टस्य लभ्यत इति शेषव्युदासेनास्यैवोपादानमिति भावः । तत्र तिर्यञ्चस्तीर्थकरनाम्नः पूर्वप्रतिपन्नाः प्रतिपद्यमानकाश्च भवप्रत्ययेनैव (न) भवन्तीति मनुष्यग्रहणम् । बद्धतीर्थकरनामकर्मा च पूर्वमबद्धनारकायुर्नरकं न व्रजतीति पूर्वं नरकबद्धायुष्कस्य ग्रहणम् । क्षायिकसम्यग्दृष्टिश्च श्रेणिकादि वत्तत्सम्यक्त्वोऽपि कश्चिन्नरकं याति, किन्तु तस्य विशुद्धत्वेनोत्कृष्टस्थित्यबन्धकत्वात्, तस्या एव चेह प्रकृतत्वात् नासौ गृह्यते । अतः प्रस्तुतकर्मेत्कृष्टस्थितिबन्धकत्वान्मिथ्यात्वाभिमुखस्यैव ग्रहणमिति गाथार्थः ॥६०॥ १. वत्सम्यक्त्वेऽपि प्र. १८४
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy