________________
बन्धशतकप्रकरणम्
अट्ठारस पयडीणं अजहन्नो बंध चउविगप्पो उ । साइ अ अधुवबंधो सेसतिगे होइ बोधव्वो ॥५५॥
गा.-५५
ज्ञानावरणपञ्चकदर्शनावरणचतुष्कसज्वलनचतुष्कान्तरायपञ्चकलक्षणानाम् अष्टादशप्रकृतीनामजघन्यो बन्धः साद्यादिः | चतुर्विकल्पोऽपि भवति । तथाहि-अमीषां पूर्वोक्तयुक्तित एवोपशमश्रेणौ बन्धव्यवच्छेदं कृत्वा प्रतिपत्य पुनरजघन्यं बध्नतः सादिस्तद्बन्धस्तत्स्थानमप्राप्तपूर्वस्यानादिर्धवोऽभव्यानामध्रुवो भव्यानामिति । सर्वमिह पूर्ववदेव भावनीयम् । एतासामेव प्रकृतीनां शेषत्रिके जघन्योत्कृष्टानुत्कृष्टलक्षणो सादिरध्रुवश्च बन्धो भवतीति बोद्धव्यः । तथाहि-सज्वलनचतुष्टयस्य क्षपकानिवृत्तिबादरे आत्मीयात्मीयबन्धव्यवच्छेदसमये जघन्यो बन्धः । शेषचतुर्दशानां सूक्ष्मसम्परायचरमस्थितिबन्धे जघन्यः । स च । तत्प्रथमतया बध्यमानत्वात् सादिः, तत ऊर्ध्वं न भवतीत्यध्रुव इति [वैररहिका: ?] । उत्कृष्टानुत्कृष्टेष्वप्यारोहणावतरणकुर्वतां जन्तूनां साद्यध्रुवत्वं तथैव भावनीयमिति गाथार्थः ॥५५॥ भा० अट्ठारस पयडीणं ईसुत्तोत्ता पुण इमाओ ॥३९४॥
नाणंतरायदस संजलणदंसअट्ठव ईइ अट्ठारा । तत्थ अजहन्नबंधो चउभेओ पुव्वजुत्तीओ ॥३९५॥ १. [सैवयरहिक ?] सि. सैवचराहतांका प्र.
१७६