________________
गा.-५२
बन्धशतकप्रकरणम्
वर्षाणि। पुरुषवेदवय॑नोकषायाष्टकमनुष्यद्विकतिर्यग्द्विकजातिपञ्चकौदारिकद्विकतैजसकार्मणसंस्थानषट्कसंहननषट्कवर्णादिचतुष्कागुरुलघूपघातपराघातोच्छासातपोद्योतविहायोगतिद्विकयश:कीर्तिवर्ण्यत्रसादिविंशतिनिर्माणनीचैर्गोत्रलक्षणानां षट्षष्टेः प्रकृतीनां द्वौ सागरोपमसप्तभागौ पल्योपमासङ्ख्येयभागहीनौ । अत्र च पूर्वं यत्र सागरोपमं तद्भागा वा प्रोक्तास्तत्र सर्वत्र पर्याप्तबादरैकेन्द्रियो बन्धको द्रष्टव्यः । शेषाणां तु यथासम्भवमनिवृत्तिबादरसूक्ष्मसम्परायगौ बन्धकाविति । देवद्विकनरकद्विकवैक्रियद्विकलक्षणप्रकृतिषट्कस्य सागरोपमसहस्रस्य द्वौ सप्तभागौ पल्योपमसङ्ख्येयभागहीनावसज्ञिपञ्चेन्द्रिये जघन्या स्थितलभ्यते । आहारकद्विकतीर्थकरनाम्नोस्तु जघन्यापि स्थितिः सागरोपमान्त:कोटीकोटिरेव, केवलमुत्कृष्टबन्धोक्तान्त:कोटीकोट्या इयं सङ्ख्येयगुणहीना मन्तव्या । यश:कीर्षुच्चैर्गोत्रयोरष्टौ मुहूर्ताः । देवनारकायुषोर्जघन्या स्थितिर्दशवर्षसहस्राणि । मनुष्यतिर्यगायुषोस्तु क्षुल्लकभवग्रहणम् । अबाधा च जघन्यस्थितौ सर्वत्रान्तर्मुहूर्तमेव, तदूना च कर्मनिषेकः सर्वत्र वाच्य इति स्थितिप्ररूपणा अवसिता ॥५३।। भा० अह तेत्तीगाहाए ठिई जहन्ना निसामह जहुत्तं । तस्सत्थोयं विग्घे मोहावरणे मुहुत्तं तु ॥३३०॥
वेयणियस्य उ बारस नामागोयाण अट्ठ उ मुहुत्ता । खुड्डागभवग्गहणं ठिई जहन्ना उ आउस्स ॥३३१॥ सुत्ताणुत्ताओ वि हु उत्तरपयडीण जेट्ठइयरीओ । ठिड़ओ य भणिज्जंती इह गंथे सोवयारित्ता ॥३३२॥ नाणंतरायदसगं दंसणनवगं असायतीसेसि । सायाइत्थीमणुदुग पन्नरसा मिच्छि सत्तरिया ॥३३३॥
१६८