________________
बन्धशतक प्रकरणम्
तदा तस्य तत्रापि विपाकतो देवगत्याद्युदयप्रसङ्गः, अबाधायाः सुपरिक्षीणत्वात् । तस्मादिहेत्थमवधारणं कर्त्तव्यम्, यदि कर्माणि विपाकत उदयमायान्ति तदा अबाधापरिक्षये एव न पुनरबाधाक्षये उदयमागच्छन्त्येवेति उक्तदोषप्रसङ्गात् ।
तर्ह्यबाधाक्षये तीर्थकरनामादेः किं भवतीति चेत् ? उच्यते, विपाकोदययोग्यतामात्रम्, योग्यतायां च सत्यां यस्य यदा शेषापि देशक्षेत्रकालादिसामग्री भवति, तस्य तदा विपाकोदयो भवति, नान्यदेत्यलं विस्तरेण । नारकदेवायुषोस्त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटित्रिभागाधिकान्युत्कृष्टा स्थितिः, पूर्वकोटित्रिभागोऽबाधाऽबाधोना च कर्मस्थितिः कर्मनिषेकः । मनुष्यतिर्यगायुषोस्तु त्रीणि पल्योपमानि पूर्वकोटित्रिभागाधिकान्युत्कृष्टा स्थितिः, पूर्वकोटित्रिभागोऽबाधाऽबाधोना च कर्मस्थितिः कर्मनिषेक इत्युक्ता उत्कृष्टा स्थितिः ।
साम्प्रतमेतासामेवोत्तरप्रकृतीनां जघन्या स्थितिरुच्यते तत्र ज्ञानावरणपञ्चकदर्शनावरणचतुष्कलो भसञ्ज्वलनान्तरायपञ्चकलक्षणानां पञ्चदशप्रकृतीनां जघन्या स्थितिरन्तर्मुहूर्त्तम्, अन्तर्मुहूर्तं चाबाधा, अबाधोना च कर्मस्थितिः कर्मनिषेकः । पञ्चानां निद्राणामसातवेदनीयस्य च जघन्या स्थितिः पल्योपमासङ्ख्येयभागहीनाः सागरोपमस्य त्रयः सप्तभागाः अन्तर्मुहूर्तमबाधा, तदूना च कर्मस्थितिः कर्मनिषेकः । एवमुत्तरत्राप्यबाधानिषेकौ वाच्यौ । सातवेदनीयस्य द्वादश मुहूर्त्ताः । मिथ्यात्वस्य पल्योपमासङ्ख्येयभागहीनं सागरोपमम् । सञ्ज्वलनवर्ण्यकषायद्वादशकस्य पल्योपमासङ्ख्येयभागहीनाः सागरोपमस्य चत्वारः सप्तभागाः । सञ्चलनक्रोधमानमायानां यथासङ्ख्यं मासद्वयम् एको मासो अर्द्धमासश्च जघन्या स्थितिः । पुरुषवेदस्यष्टौ
गा.-५२५३
१६७