________________
गा.-५२
बन्धशतकप्रकरणम्
पुरुषवेदहास्यरतिदेवद्विकसमचतुरस्रवज्रर्षभनाराचप्रशस्तविहायोगतिस्थिरशुभसुभगसुस्वरादेययश:कीयुच्चैर्गोत्रलक्षणानां पञ्चदशप्रकृतीनां दशसागरोपमकोटीकोट्यः । न्यग्रोधर्षभनाराचयोर्द्वादश सागरोपमकोटीकोट्यः । सादिनाराचयोश्चतुर्दश सागरोपमकोटीकोट्यः । कुब्जार्द्धनाराचयोः षोडश सागरोपमकोटीकोट्यः । वामनकीलिकाद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तकसाधारणप्रकृत्यष्टकस्याष्टादश सागरोपमकोटीकोट्यः । अत्र च सर्वेत्रैकस्याः सागरोपमकोटीकोट्या एकं वर्षशतमबाधा भवति । ततश्च यस्य कर्मणो दशसागरोपमकोटीकोट्यः उक्तास्तस्य दशवर्षशतान्यबाधा द्रष्टव्या । यस्य तु द्वादश सागरोपमकोटीकोट्यः तस्य द्वादशवर्षशतान्यबाधेत्येवं यस्य यावत्यः सागरोपमकोटीकोट्यः स्थितिस्तस्य तावन्ति वर्षशतान्यबाधा वाच्या । अबाधोना च कर्मस्थितिः कर्मनिषेकः सर्वत्र वाच्य इति । आहारकद्विकतीर्थकरनाम्नोस्तु सागरोपमान्त:कोटाकोटिरेव स्थितिर्भवति, अन्तर्मुहूर्त चाबाधा, अबाधोना च कर्मस्थितिः कर्मनिषेकः । ___ननु तीर्थकरनामबद्धं सत् तृतीयभव एवोदयं याति “'बज्झइ तं तु भगवओ तइअभवे सक्कइत्ताणं''इति वचनादत्र त्वबाधान्तर्मुहूर्तमेवोक्ता अतस्तस्मिन्नेव भवेऽन्तर्मुहूर्त्तादनन्तरं विपाकत उदयः प्राप्नोतीति, तदयुक्तम्, अभिप्रायापरिज्ञानात्, नहि | वयमित्थमवधारयामो यदुताबाधापरिक्षयेऽवश्यं कर्माण्युदयमागच्छन्त्येवेति । इत्थं ह्यवधार्यमाणे यदा कश्चिदिह मनुष्यादिर्देवगतिप्रायोग्यानि देवद्विकादीनि कर्मणि पूर्वं बद्ध्वा ततः पुनरपि सङ्क्लिष्टो भूत्वा वनस्पतिषूत्पन्नस्तत्रैवानन्तकालं तिष्ठति,
१. बध्यते तत्तु भगवतस्तृतीयभवेऽवष्कपित्वा ।
१६६