________________
गा.-५२
बन्धशतकप्रकरणम् ।
बाधया तु सह यथोक्तस्वरूपा द्रष्टव्येति भावः । एवं मूलप्रकृतीनामुत्कृष्टा स्थितिर्भवति । इत ऊर्ध्वमेतासामेव जघन्यां स्थिति निशामयत-शृणुत यूयमिति सूचैवेषा कृता, द्रष्टव्या त्वसौ स्वयमेवेति । तत्र ज्ञानदर्शनमोहनीयान्तरायाणामन्तर्मुहूर्त्त जघन्या स्थितिर्भवति । एतस्माच्च लघुतरमन्तर्मुहूर्तमबाधा अबाधोना च कर्मस्थितिः कर्मनिषेक: । वेदनीयस्य तु कषायप्रत्ययं बन्धमाश्रित्य जघन्या स्थितिादशमुहूर्त्ता अन्तर्मुहूर्तमबाधाऽबाधोना च कर्मस्थितिः कर्मनिषेकः, केवलयोगप्रत्ययस्त्वस्य द्विसामयिकोऽपि बन्धो भवति, किन्तु स नेहाधिक्रियते, कषायप्रत्ययबन्धस्यैवाधिकृतत्वादिति । नामगोत्रयोर्जघन्या स्थितिरन्तमुहूर्तमबाधोना च कर्मस्थितिः कर्मनिषेकः । आयुषस्तु क्षुल्लकभवग्रहणं जघन्या स्थितिरन्तर्मुहूर्तमबाधा अबाधोना च कर्मस्थितिः कर्मनिषेक इति गाथाद्वयार्थः ॥५२-५३॥
इदानीं सूत्रेऽनुक्ताऽप्युत्तरत्र सप्रयोजनत्वादुत्तरप्रकृतीनामुत्कृष्टेतरभेदभिन्ना स्थितिरुच्यते-तत्र ज्ञानावरणपञ्चकदर्शनावरणनवकाऽसातवेदनीयान्तरायपञ्चकलक्षणानां विंशतिप्रकृतीनां त्रिंशत्सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः । सातवेदनीयस्त्रीवेदमनुष्यद्विकलक्षणप्रकृतिचतुष्टयस्य पञ्चदशसागरोपमकोटीकोट्यः । मिथ्यात्वस्य सप्ततिः सागरोपमकोटीकोट्यः । कषायषोडशकस्य चत्वारिंशत्सागरोपमकोटीकोट्यः । नपुंसकवेदारतिशोकभयजुगुप्सानरकद्विकतिर्यग्द्विकैकेन्द्रियजातिपञ्चेन्द्रियजात्यौदारिकद्विकवैक्रियद्विकतैजसकार्मणहुण्डसेवार्त्तवर्णादिचतुष्कागुरुलघूपघातपराघातोच्छासातऽऽपोद्योताप्रशस्तविहायोगतित्रसस्थावरबादरपर्याप्तप्रत्येकास्थिराशुभदुर्भगदुःस्वरानादेयायश:कीर्तिनिर्माणनीवैर्गोत्रलक्षणानां त्रिचत्वारिंशतः प्रकृतीनां विंशतिसागरोपमकोटीकोट्यः ।
१६५