________________
गा.-५२
बन्धशतकप्रकरणम्
अतिमहत्त्वादुदधिवत्तरीतुमचिरात्पारं नेतुं न शक्यन्त इत्यतराणि सागरोपमाणि, द्वितीयगाथान्तोपात्तश्च स्थितिशब्दोऽत्र सम्बध्यते । ततश्च सप्ततिः सागरोपमानां कोटीकोट्यो मोहनीयस्योत्कृष्टा स्थितिर्भवति । अत्र च सप्तवर्षसहस्राणि कर्मणोऽनुदयलक्षणाऽबाधा द्रष्टव्या । बद्धमपीत्थमेतत्कर्म सप्तवर्षसहस्राणि यावद्विपाकोदयलक्षणां बाधां न करोतीत्यर्थः, तथा च सप्तवर्षसहस्रलक्षणया अबाधया ऊना-हीना कर्मस्थितिः कर्मनिषको द्रष्टव्यः । निषेको नाम प्रथमसमये बहु, द्वितीयसमये हीनं, तृतीयसमये हीनतरं ततो हीनतमं कर्मदलिकं रच्यते यत्र स एवंभूतः कर्मदलिकरचनाविशेषो निषेक उच्यते, अबाधां विहाय तत ऊर्ध्वं वेदनार्थं कर्मनिषको भवतीति भावः । स्थापना ००० । 'तीसं आइतिगंते'त्ति आदौ त्रिकमादित्रिकं ज्ञानदर्शनावरणवेदनीयत्रयलक्षणम् अन्ते भवमन्त्यं अन्तरायलक्षणमष्टमं कर्मेत्यर्थः, आदित्रिकं चान्त्यं चादित्रिकान्त्यमिति समाहारस्तस्मिन्नादित्रिकान्त्यज्ञानदर्शनावरणवेदनीयान्तरायेष्वित्यर्थः, त्रिंशत्सागरोपमकोटीकोट्यः प्रत्येकमुत्कृष्टा स्थितिर्भवति । अत्रापि त्रीणि वर्षसहस्राण्युक्तलक्षणाऽबाधा भवति । अबाधोना च कर्मस्थितिः कर्मनिषेक उक्तलक्षणो द्रष्टव्यः । नामगोत्रयोश्च प्रत्येकं विंशतिसागरोपमकोटीकोट्यः उत्कृष्टस्थितिर्भवति । अबाधा तु वर्षसहस्रद्वयम् अबाधोना च कर्मस्थितिः कर्मनिषेकः । 'तेत्तीसुदही आउम्मि केवल 'त्ति अतिमहत्त्वसाम्यादुदधिशब्देनेह सागरोपमाण्युच्यन्ते । ततश्च पूर्वकोटीत्रिभागाधिकानि त्रयस्त्रिंशत्सागरोपमाण्यायुप्युत्कृष्टा स्थितिर्भवति । पूर्वकोटीत्रिभागाऽबाधा, अबाधोना च कर्मस्थितिः । कर्मनिषेकोऽत्र चाबाधां प्रपात्य सूत्रे निषेककाल एवोक्तोऽत एवाह 'केवल 'त्ति केवलाऽबाधारहिता इयं त्रयस्त्रिंशत्सागरोपमलक्षणा आयुषः स्थितिर
१६४