SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् तदेवमोघत उत्तरप्रकृतीनां बन्धस्वामित्वमुक्तम्, साम्प्रतं विभागतो भणने ग्रन्थगौरवं पश्यन् गत्यादिषु चतुर्दशसु मार्गण - स्थानेष्वतिदिशन्नाह गइयाइएसु एवं तप्पओगाणमोहसिद्धाणं । सामित्तं नेयव्वं पयडीणं ठाणमासज्ज ॥५१॥ एवमुक्तप्रकारेण प्रकृतीनां स्थानं ज्ञानावरणपञ्चकादिषु आसाद्याश्रित्य स्वामित्वम् - बन्धस्वामित्वं ज्ञेयम् - ज्ञातव्यम्, केषु | स्वामित्वं विज्ञेयमित्याह गत्यादिषु द्वारेषु " गइईदिए य काए" इत्यादिगाथाप्रतिपादितेषु । कथम्भूतानां प्रकृतीनामित्याहतत्प्रायोग्याणाम् गत्यादिद्वारप्रायोग्याणाम्, पुनः कथम्भूतानामित्याह - ओघसिद्धानाम् - सामान्यानन्तरबन्धस्वामित्वभणन| निश्चितानाम् । इदमुक्तं भवति - ओघेन यदुक्तं बन्धस्वामित्वं तदनुसारेणैव गत्यादिद्वारेषु यथा स्वयोग्यप्रकृतीनां बन्धस्वामित्वं स्वमत्याऽभ्यूह्य वाच्यम् । तत्र गतयो नरकगत्यादिकाश्चतस्रः, तत्र नारकदेवायुषी नरकद्विकं देवद्विकं एकद्वित्रिचतुरिन्द्रियजातयः वैक्रियद्विकं आहारकद्विकं आतपम् स्थावरं सूक्ष्मम् अपर्याप्तकं साधारणमित्येता एकोनविंशतिप्रकृतयो नारकाणां भवप्रत्ययेनैव | बन्धे न सम्भवन्ति, शेषं त्वेकोत्तरशतं नरकगतौ नारका बध्नन्ति । तिर्यग्गतौ त्वाहारकद्विकं तीर्थकरनामेत्येतास्तिस्त्रः प्रकृतीर्मुक्त्वा शेषं सप्तदशोत्तरं प्रकृतिशतं नानाजीवानाश्रित्य तिर्यञ्चो बध्नन्ति । मनुष्यगतौ तु यथा ओघे तथैव विंशत्यधिकमपि शतं गा. ५१ १६१
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy