________________
बन्धशतकप्रकरणम्
नानामनुष्याणां बन्धे वाच्यम् । नवरं तिर्यञ्चो मनुष्याश्च सम्यङ्मिथ्यादृष्टयोऽविरतसम्यग्दृष्टयश्च देवगतिप्रायोग्यमेव बध्नन्ति, न | मनुष्यगतिप्रायोग्यम् । देवगतौ तु नरकगतिप्रायोग्यं यदुक्तमेकोत्तरं शतं तदेवैकेन्द्रियजात्यातपस्थावरलक्षणप्रकृतित्रयसहितचतुरुत्तरं प्रकृतिशतं देवा बध्नन्ति । साम्प्रतमिन्द्रियद्वारम्, तत्रैकद्वित्रिचतुरिन्द्रिया नारकदेवायुषी नरकद्विकं देवद्विकं वैक्रियद्विकं आहारकद्विकं तीर्थङ्करनामेत्येता एकादशप्रकृतीर्मुक्त्वा शेषं पृथक् पृथग् नवोत्तरशतं नवोत्तरशतं बध्नन्ति । पञ्चेन्द्रियेषु त्वोघवद्वाच्यमिति । एवं कायादिद्वारेष्वपि बन्धस्वामित्वं विजयग्रन्थाद्यनुसारतोऽभियुक्तेनोपयुज्य वाच्यम् । तदेवमुत्तरप्रकृतीनामोघतो विभागतश्च बन्धस्वामित्वमुक्तम् ॥५१॥
मूलप्रकृतीनां तु सुगमत्वान्नोक्तं तच्च स्वयमभ्यूह्यमिति
॥ प्रकृतिबन्धः समाप्तः ॥
भा० एत्तो पुण सव्वासिं इय गाहदुगेण बंधसामित्तं । वुच्छेओ सोलइमाइ गाहपणगेण पयडीणं ॥३२२॥ तब्भणणानिद्दिट्टं सामित्तं एत्थ सव्वपयडीणं । तब्भणणाओ य तहा पयडीदारं पि गयमेयं ॥ ३२३ ॥ ॥ पयडीबंधो सम्मत्तो ॥
गा. ५१
१६२