________________
बन्धशतक प्रकरणम्
पूर्वोक्ताः सप्तदशप्रकृतीस्तावद् बध्नाति यावच्चरमसमयः, ततस्तत्र ज्ञानावरणपञ्चकं चक्षुरचक्षुरवधिकेवलदर्शनावरणचतुष्कं यशः कीर्तिरुच्चैर्गोत्रम् अन्तरायपञ्चकमित्येतासां षोडशप्रकृतीनामन्तो भवति । इति तदपगमे शेषं सातमेकमुपशान्तक्षीणमोहसयोगिकेवलिनो बध्नन्तीति गाथार्थः ॥ ४९ ॥
सायंतो जोगंते एत्तो परओ उ नत्थि बंधो त्ति । नायव्वो पयडीणं बंधस्संतो अणंतो य ॥५०॥
सातस्य सातवेदनीयस्य, अन्तो- व्यवच्छेदो, योग्यन्ते - सयोगिकेवलिनश्चरमसमये भवति, एतस्मात्परतः पुनः अयोगिकेवल्यवस्थायां नास्ति बन्धः, अयोगिकेवली सर्वथाऽबन्धक इत्यर्थः । उपसंहरन्नाह - 'नायव्वो पयडीणं बंधस्संतो अणंतो यत्ति । एवं पूर्वोक्तप्रकारेण यत्र गुणस्थाने यासां प्रकृतीनां बन्धस्यान्त उक्तस्तत्र तासां बन्धस्यान्तः, तत्र भावस्तदुत्तरत्राभाव | इत्येवं लक्षणो ज्ञातव्यः । शेषाणां त्वनन्तस्तदुत्तरत्रापि भावलक्षणो ज्ञातव्यः । यथा षोडशप्रकृतीनां मिथ्यादृष्टौ बन्धस्यान्तः शेषस्य त्वेकोत्तरशतस्यानन्तस्तदुत्तरत्रापि गमनाद्, एवमुत्तरत्र गुणस्थानेष्वप्यन्तानन्तभावना कार्या । पाठान्तरं वा 'नायव्वो पयडीणं बंधो संतो अणंतो यत्ति अत्राप्ययमेवार्थः । अथवा सर्वोऽप्ययं प्रकृतीनां बन्धः सान्तो ज्ञातव्यो भव्यानाम्, अनन्तश्च ज्ञातव्योऽभव्यानामिति गाथार्थः ॥५०॥
गा.-५०
१६०