________________
गा.-४९
बन्धशतक-IA
| समचतुरस्रं वर्णादिचतुष्कम् अगुरुलघु उपघातं पराघातम् उच्छ्वासं प्रशस्तविहायोगतिस्त्रसादिचतुष्कं स्थिरं शुभं सुभगं सुस्वरं आदेयं । प्रकरणम् निर्माणं तीर्थकरमिति । एतदपगमे च शेषां षड्विंशति तावद् बध्नाति, यावत् स्वगुणस्थानचरमसमयस्ततो हास्यरतिभयजुगुप्सालक्षणानां
चतसृणां प्रकृतीनामन्तो भवतीति षड्विंशतेस्तदपगमे शेषां द्वाविंशतिमनिवृत्तिबादरो बध्नातीति गाथार्थः ॥४८॥
संखेज्जइमे सेसे आढत्ता बायरस्स चरिमंते । पंचसु एक्कक्कंतो सुहुमंता सोलस हवंति ॥४९॥
का
अनन्तरोक्तां द्वाविंशतिमनिवृत्तिबादरस्तावद् बध्नाति यावत् स्वगुणस्थानकालस्य सङ्ख्येयभागा गता । एकस्तु सङ्ख्येयभागे शेषे सति इत आरभ्य यावत्प्रस्तुतगुणस्थानकस्य चरमसमयस्तावत्पञ्चसु भागेषु तेषु यथाक्रममेकैकस्याः प्रकृतेरन्तो | भवतीति । प्राकृतत्वात् विभक्तिव्यत्ययादिना तात्पर्यव्याख्या । एतदुक्तम्-इहानिवृत्तिबादरगुणस्थानकस्य चरमः सङ्ख्येयभागः पञ्चभिर्भागैः कल्प्यते । तत्र प्रथमभागान्ते पुरुषवेदलक्षणाया एकस्याः प्रकृतेर्बन्धव्यवच्छेदे शेषामेकविंशतिमसौ बध्नाति । ततो द्वितीयभागान्ते क्रोधबन्धे व्यवच्छिन्ने शेषां विंशतिम् । ततस्तृतीयभागान्ते मानबन्धे व्यवच्छिन्ने शेषामेकोनविंशतिम् ।। ततश्चतुर्थभागान्ते मायाबन्धे व्यवच्छिन्ने शेषा अष्टादशप्रकृतीरयमेव बध्नाति । ततः पञ्चमभागस्य चरमसमये लोभलक्षणाया एकस्याः प्रकृतेर्बन्धे व्यवच्छिन्ने शेषाः सप्तदशप्रकृती: सूक्ष्मसम्परायो बध्नाति । 'सुहुमंता सोलस हवंति'त्ति सूक्ष्मसम्परायः
१५९