________________
बन्धशतक प्रकरणम्
देवायुषो बन्धे व्यवच्छिन्नेऽसावप्यष्टपञ्चाशतमेव बध्नाति । देवायुबन्धं हि प्रमत्तेनारब्धमसावप्यभिहितसमये समर्थयते, न पुनः स्वयमारभत इति द्रष्टव्यम् । इत्थं चैकस्या देवायुर्लक्षणायाः प्रकृतेरप्रमत्तेऽन्तोऽतः शेषामष्टपञ्चाशतमपूर्वकरणो बध्नातीति भाव इति गाथार्थः ॥४७॥
दोतीसं चत्तारि य भागे भागेसु संखसण्णाए । चरिमेय जहासंखं अपुव्वकरणंतिया होंति ॥ ४८ ॥
अपूर्वकरणेऽन्तो व्यवच्छेदो यासां ता अपूर्वकरणान्तिकाः प्रकृतयः । का इति आह - द्वात्रिंशत् चतस्रश्च । क्व प्रदेशे इत्याह-भागे श्रुतत्वादपूर्वकरणगुणस्थानकस्यैवेति गम्यते । तथा 'भागेषु कया इत्याह- सङ्ख्येयसञ्ज्ञया सङ्ख्येये अपूर्वकरणभागे सङ्ख्येयेषु तद्भागेष्वित्यर्थः । तथा चरमे च समय इति गम्यते । यथासङ्ख्यम् - यथाक्रममिति गाथाक्षरयोजना । अयमत्र भावार्थ:-इह पूर्वोक्तयुक्तिलब्धमष्टापञ्चाशतमपूर्वकरणस्तावद् बध्नाति यावत् स्वगुणस्थानकसङ्ख्येयभागेऽत्र निद्राप्रचलालक्षणप्रकृतिद्वयस्यान्तो व्यवच्छेदो भवति । ततः षट्पञ्चाशतं तावद् बध्नाति यावत् स्वगुणस्थानकसङ्ख्येयभागाः । अत्रैतासां देवगतिप्रायोग्यानां त्रिंशत्प्रकृतीनामन्तो भवति । तद्यथा देवद्विकं पञ्चेन्द्रियजातिवैक्रियद्विकं आहारकद्विकं तैजसं कार्मणं
१. “भागेषु किंविशिष्टेषु उपलक्षितेषु" इत्यधिकं कुत्रचित्प्रतौ ।
गा. ४८
१५८