________________
बन्धशतक प्रकरणम्
चत्वारोऽप्रत्याख्यानावरणा: मनुष्यायुर्मनुष्यद्विकम् औदारिकद्विकं वज्रर्षभनाराचमित्येतासां दशानां प्रकृतीनामविरतेऽन्तोऽविरतसम्यग्दृष्टिरेव बध्नाति नोत्तर इत्यर्थः ।
नन्वविरतोऽपि सम्यग्दृष्टित्वात् सुरलोकयोग्यमेव बध्नातीति कुतोऽमुष्यापि मनुष्ययोग्यस्य मनुष्यायुष्कादेर्बन्धसम्भव चेत् ? ननु कर्मशास्त्रापरिकर्मितमतेरिदं वचो, यतो हन्त ! मनुष्यतिर्यक्ष्वेव व्यवस्थितोऽसौ सुरलोकयोग्यं बध्नाति, नारकदेवेषु तु व्यवस्थितोऽविरतो मनुष्यप्रायोग्यमेवोपरचयतीति तत्र व्यवस्थितस्यास्य मनुष्यायुष्कादिबन्धसम्भवो देशविरतादयस्तु नरकेषु देवलोकेषु वा न लभ्यन्त इत्युत्तरत्रासामभावोऽतः सप्तसप्ततेर्दशस्वपनीतासु शेषां सप्तषष्ट देशविरतो बध्नाति । प्रत्याख्यानावरणचतुष्टस्य विरताविरते देशविरतेऽन्तः, प्रमत्तादयो न बध्नन्ति तेषां प्रत्याख्यानावरणोदयाभावात् । कषाया हि ये | वेद्यन्ते त एव बध्यन्तेऽनन्तानुबन्धिवर्जा: । 'जे वेअइ ते बंधेइ" इति वचनात्, अतः सप्तषष्टेः प्रत्याख्यानावरणचतुष्टयापगमे शेषां त्रिषष्टिं प्रमत्तयतिर्बध्नाति । असातम् अरतिः शोकोऽस्थिरं अशुभम् अयशः कीर्त्तिरित्येतासां षण्णां प्रकृतीनां प्रमत्तेऽन्तो अप्रमत्तादयो विशुद्धत्वान्न बध्नन्तीति त्रिषष्ठेरेतत्प्रकृतिषट्कापगमे शेषा सप्तपञ्चाशत्, तन्मध्ये आहारकद्विकक्षेपे एकोनषष्टिर्भवति, तामप्रमत्तयतिर्बध्नाति । "अप्रमत्तयतिसम्बन्धिना हि संयमेनाहारकद्विकं बध्यते" इत्युक्तम् । स चेह लभ्यत इति पूर्वाप| नीताहारकद्विकस्यात्र प्रक्षेपः । एतां चैकोनषष्टिमसौ स्वगुणस्थानककालस्य सङ्ख्येयभागमेव यावद् बध्नाति । ततः परं
१. यान् वेद्यते तान् बध्नाति ।
गा. ४७
१५७