________________
बन्धशतक प्रकरणम्
नोत्तर इत्यर्थः । ततश्चैकोत्तरशतात्पञ्चविंशित्यपगमे शेषाः षट्सप्ततिं तीर्थकरनामसहितां सप्तसप्ततिमविरतसम्यग्दृष्टिर्बध्नाति । तत्कारणं सम्यक्त्वमस्तीति पूर्वापनीतमपि तीर्थकरनाममात्रं प्रक्षिप्यते । ननु सम्यमिध्यादृष्टिः कियती: प्रकृतीर्बध्नातीत्याह 'तित्थयराउदुसेसे 'त्यादि, अत्रान्तशब्दः समीपवचन एव ततश्चाविरतोऽविरतसम्यग्दृष्टिरन्तः समीपमाश्रयी यासां ता अविरतान्ता अविरताश्रया अविरतसम्यग्दृष्टिबन्धप्रायोग्या इति यावत् ता एव मिश्रस्य सम्यङ्मिथ्यादृष्टेर्भवन्तीति क्रिया सम्बध्यते । या एव प्रकृतीरविरतसम्यग्दृष्टिर्बध्नाति ता एव मिश्रोऽपीत्यर्थः । किं सर्वा ? नेत्याह- तीर्थंकर चायुर्द्विकं च तीर्थकरायुर्द्विकमिति समाहारस्तस्माच्छेषा उद्धरिता एव बध्नाति । इदमुक्तं भवति इह नारकतिर्यगायुषी यथासङ्ख्यं मिथ्यादृष्टिसास्वादनगुणस्थानकयोर्व्यवच्छिन्ने शेषं तु मनुष्यदेवायुर्द्वयं तिष्ठति, तदपि मिश्रो न बध्नात्येव, आयुर्बन्धस्यास्य सर्वथा प्रतिषिद्धत्वात् सम्मामिच्छादिट्टी आउयबंधंपि न करेइ' इति वचनात् । तीर्थकरनाम पुनः सम्यक्त्वाभावादेव न बन्धात्यतस्तीर्थकरनाम्ना मनुष्यदेवायुर्द्वयेन च रहिताः शेषा अविरतसम्यग्दृष्टियोग्या एव चतुःसप्ततिप्रकृतीमिश्रो बध्नातीति गाथार्थः ॥४६॥
अविरइयंताओ दस विरयाविरयंतिया उ चत्तारि । छच्चेव पमत्तंता एगा पुण अप्पमत्तंता ॥४७॥
१. सम्यमिध्यादृष्टिरायुबन्धमपि न करोति ।
गा.-४७
१५६