________________
बन्धशतक
प्रकरणम्
सव्वासिं पयडीणं मिच्छद्दिट्ठी 3 बंधगो भणिओ । तित्थयराहारदुगं मोत्तूणं सेसपयडीणं ॥४४॥
इह बन्धे विंशत्युत्तरं शतं प्रकृतिनामधिक्रियत इति प्रागेव प्रकृतिसमुत्कीर्त्तनावसरे दर्शितम् । एतासां च सर्वासां विंशत्युत्तरशतलक्षणानां प्रकृतिनां मध्ये तीर्थकरनाम आहारकद्विकं च मुक्त्वा शेषप्रकृतीनां सप्तदशोत्तरशतलक्षणानां मिथ्या| त्वादिभिः प्रत्यनीकतादिभिश्च सामान्यविशेषहेतुभिर्मिथ्यादृष्टिबन्धक इत्येवंपर्यन्ते सण्टङ्कः । तीर्थंकराहारकद्विकं मुक्त्वा | शेषसप्तदशोत्तरप्रकृतिशतबन्धस्य मिथ्यादृष्टिः स्वामीति भावः, तुशब्दस्य विशेषणार्थत्वात् नानाजीवान् प्रतीत्यैतत् द्रष्टव्यम् एक| जीवस्यैककालमेतावद्बन्धासम्भवात् एवम् उत्तरत्रापीति गाथार्थः ॥४४॥
तीर्थकराहारकद्विकं वर्जनं किमितीत्याह
सम्मत्तगुणनिमित्तं तित्थयरं संजमेण आहारं । बंधंति सेसियाओ मिच्छत्ताईहि हेऊहिं ॥ ४५ ॥
तीर्थकरनाम तावदर्हद्वात्सल्यादिहेतुभिर्बध्यत इति सम्यक्त्वगुणनिमित्तैव तत्प्रतिपत्तिः, पूर्वं बध्यमानमपि च सम्यक्त्वापगमे
गा.-४४
४५
१५४