________________
गा.-४३
बन्धशतकप्रकरणम्
कर्मसु वीप्साया गम्यमानत्वादेकैकमेव बन्धस्थानं भवति । तत्राद्यकर्मणि मतिज्ञानावरणाद्युत्तरप्रकृतिपञ्चकस्य समुदितमेवैकं | बन्धस्थानं मिथ्यादृष्टेरारभ्य सूक्ष्मसम्परायं यावद्भवति, एवमन्तरायपञ्चकस्यापि वाच्यम् । वेदनीयस्याप्येकमेव स्थानं सातमसातं वा । आयुषश्चतुर्णामायुषामन्यतरैकायुष्कलक्षणमेकमेव बन्धस्थानम् । गोत्रस्य तु नीचैर्गोत्रमितरद्वा एकं बन्धस्थानम् । अत्र च सूचकत्वात् सूत्रस्यैतत् स्वयमेव द्रष्टव्यम् । यदत्र कर्मपञ्चकेऽपि भूयस्कराऽल्पतरबन्धौ न सम्भवतः, तल्लक्षणायोगाच्छेषौ तु द्वौ वेदनीयवर्ण्यकर्मचतुष्टये सम्भवतस्तथाहि-ज्ञानावरणान्तरायगोत्राणामुपशान्तमोहावस्थायामायुषस्त्वपूर्वकरणाद्यवस्थायां सर्वथैवाबन्धको भूत्वा प्रतिपत्य यदा पुनरतान्येव बध्नाति, तदा प्रथमसमयेऽवक्तव्यकबन्धो अथवा आयुषस्तु यदा त्रिभागादिसमयादौ बन्धकस्तदा प्रथमसमयेऽवक्तव्यकबन्धो द्वितीयादिसमयेषु त्ववस्थितबन्धः । वेदनीयद्विकस्य त्ववस्थितबन्धोऽस्ति प्रभूतकालमवस्थितत्वेन बध्यमानत्वादवक्तव्यकस्तु न सम्भवति । स हि सर्वथाऽबन्धको भूत्वा यदा प्रतिपत्य पुनस्तदेव बध्नाति, तदा सम्भवति । न चैतद्वेदनीयेऽस्तीत्युक्तत्वात्, तदेवं
नाणावरणे तह आउयम्मि गोयम्मि अंतराए य । चउसु अवत्तगबंधा अवट्ठिओ वेयणिज्जम्मि ॥१॥ इति गाथार्थः ॥४३।। भा० बंधट्ठाणं पढमं नवेव छच्चेव तह य चत्तारि । बंधट्ठाणाणि हवंति तिन्नि इय दंसणावरणे ॥२४९॥
जा सायणु नवबंधी थीणतिरहिओ छबंधि जापुव्वो । अपुव्वा जा सुहुमो निदादुगविरहियचउब्बंधी ॥२५०॥
१४७