________________
गा.-४३
बन्धशतक-A प्रकरणम्
पूर्वाभिहितामेवैकोनत्रिंशतं बध्नतस्तृतीयोऽल्पतरबन्धः । यदा तु तिर्यङ्मनुष्याणामन्यतरस्तिर्यक्प्रायोग्यां पूर्वोक्तामेकोनत्रिंशतं बद्ध्वा तथाविधविशुद्धिवशाद्देवगतिप्रायोग्यामष्टाविंशतिं बध्नाति तदा चतुर्थः । अष्टाविंशतेश्च तथाविधसंक्लेशवशादेकेन्द्रियप्रायोग्यं षड्विंशतिबन्धं गतस्य पञ्चमस्ततोऽपि पञ्चविंशतिबन्धं गतस्य षष्ठः, ततोऽपि त्रयोविंशतिबन्धं गतस्याद्यसमये | सप्तमोऽल्पतरबन्धः । अवक्तव्यकबन्धास्त्विह त्रयो भवन्ति । तत्रोपशान्तमोहावस्थायां नामकर्मणोऽबन्धको भूत्वा इहैवोपशान्ताद्धाक्षयेण प्रतिपत्य यदा पुनरप्येकविधं बध्नाति, तदाद्यसमये प्रथमोऽवक्तव्यकबन्धः, अथोपशान्तमोहावस्थायामेवायु:क्षयेणाबन्धको भूत्वाऽनुत्तरसुरेषूत्पद्यते, उपात्ततीर्थकरनामा च भवति, तदा तस्य तत्र प्रथमसमय एव मनुष्यगतिप्रायोग्यां पूर्वोक्तस्वरूपां तीर्थकरसहिता त्रिंशतं बध्नतो द्वितीयोऽवक्तव्यकबन्धः । अथानुपात्ततीर्थकरनामा तदा तीर्थकरनामरहितां तत्रैव मनुष्यगतिप्रायोग्यामेकोनत्रिशतिं बध्नतस्तृतीयोऽवक्तव्यकबन्धः । एषु चाष्टस्वपि बन्धस्थानेषु द्वितीयादिसमयेषु सर्वत्रावस्थितवन्धो लभ्यत इत्यवस्थितबन्धा अष्टौ, तदेवं
छन्भूयगारबंधा सत्तेव भवंति अप्पतरबंधा । तिन्नव्वत्तगबंधा अवट्ठिया अट्ठ नामम्मि ॥१॥ गाथाद्यपादत्रयं व्याख्यातम् । 'सेसेसेगं हवइ ठाणं'ति शेषेषु भणितोद्धरितेषु ज्ञानावरणवेदनीयायुर्गोत्रान्तरायलक्षणेषु पञ्चसु
१. षट्भूयस्कारबन्धाः सप्तैव भवन्त्यल्पतरबन्धाः त्रयोऽवक्तव्यकबन्धा अवस्थिता अष्टौ नाम्नि ॥१॥
१४६