________________
बन्धशतक
गा.-४३
प्रकरणम्
च देवगतिप्रायोग्या आहारकद्विकबन्धसहिता या पूर्वं त्रिंशदुक्ता तन्मध्ये तीर्थकरनामबन्धे प्रक्षेपे भवति । तां चाप्रमत्तयतिः | कियन्तमपि भागं यावदपूर्वकरणश्च देवगतिप्रायोग्यामेव बध्नाति । एकविधबन्धं तु यशःकीर्तिस्वरूपमपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायाः स्वरुपेणैव बध्नन्ति, न तु कस्यचित्प्रायोग्यं, देवगतिप्रायोग्यस्यापि बन्धस्यापूर्वकरणमध्ये व्यवच्छिन्नत्वात् ।। तदेवं स्वरूपतोऽष्टावप्युक्तानि सक्षेपतो बन्धस्थानानि । साम्प्रतमेतेषु प्रकृता भूयस्कारादय एव विचिन्त्यन्ते । तत्रेहभूयस्कारबन्धाः षट्, तथाहि-कस्यचिदपर्याप्तैकेन्द्रियप्रायोग्यां त्रयोविंशति बद्ध्वा तत्प्रायोग्यविशुद्धिवशात् पञ्चविंशतिविधं बन्धं गतस्याद्यसमये प्रथमो भूयस्कारबन्धः । इतोऽपि तत्प्रायोग्यविशुद्धितः षड्विंशतिबन्धं गतस्य द्वितीयस्तथैवाष्टाविंशतिबन्धं गतस्य तृतीय एवमुपर्युपरि तावन्नेयम्, यावदाहारकद्विकसहितां त्रिंशति बद्ध्वा एकत्रिंशबन्धं गतस्याद्यसमये षष्ठो भूयस्कारबन्धः । अथवा यश:कीर्तिलक्षणमेकविधं बद्ध्वा श्रेणेनिपततः पुनरपूर्वकरणे एकत्रिंशतं बनतः षष्ठ एव भूयस्कारबन्धः, न सप्तमः, एकत्रिंशल्लक्षणस्थानकस्योभयथाऽप्येकत्वादिति । अल्पतरबन्धास्तु सप्त तत्रापूर्वकरणे देवगतिप्रायोग्यामष्टाविंशतिमेकोनत्रिंशतं वा त्रिंशतं वा एकोनत्रिंशतं वा बद्ध्वा तद्बन्धव्यवच्छेदे एकविधबन्धं गतस्याद्यसमये प्रथमोऽल्पतरबन्धः। एकत्रिंशद्बन्धाच्च त्रिंशद्बन्धं गतस्य द्वितीयोऽल्पतरबन्धः । एतच्च कथं सम्भवतीत्युच्यते-इह कश्चिदाहारकद्विकतीर्थकरनामसहितां पूर्वाभिहितामेकत्रिंशतं बद्ध्वा दिवि समुत्पन्नः, तस्य प्रथमसमय एव मनुष्यगतिप्रायोग्यां पूर्वोक्तामेव त्रिंशतं बनत एकत्रिंशतस्त्रिंशद्गमनं सम्भवति । ततस्तस्यैव दिवश्च्युत्वा मनुष्येषूत्पन्नस्य पुनरपि देवप्रायोग्यां पूर्वोक्तां तीर्थकरनामसहितां
१४५