________________
बन्धशतक प्रकरणम्
हास्यरतियुगलमैवानयोर्वक्तव्यम्, नारतिशोकयुगलम् । चत्वारः सञ्ज्वलनाः पुरुषवेदश्चेत्येताः पञ्चानिवृत्तिबादरो बध्नाति । पुंवेदबन्धे व्यवच्छिन्ने स एव सञ्ज्वलनचतुष्टयं बध्नाति । क्रोधबन्धे व्यवच्छिन्ने शेषं सञ्ज्वलनत्रयं स एव बध्नाति । मानबन्धे व्यवच्छिन्ने शेषं सञ्चलनद्वयं स एव बध्नाति । मायाबन्धे व्यवच्छिन्ने शेषमेकं सञ्चलनलोभं स एव बध्नाति, नान्ये । एषु च दशसु बन्धस्थानेषु नव भूयस्कारबन्धा भवन्ति । एकविधबन्धाद्धि प्रतिपत्योक्तस्वरूपं द्वितीयं बध्नत आद्यसमये प्रथमो भूयस्कारबन्धो द्विविधात् त्रिविधं गतस्य द्वितीयः एवं प्रतीपं तावन्नेयम्, यावदेकविंशतिबन्धाद् द्वाविंशतिबन्धं गतस्य नवमो भूयस्कारबन्धः । अल्पतरबन्धास्त्वष्टौ द्वाविंशतिविधबन्धात् सप्तदशविधबन्धं गतस्याद्यसमये प्रथमोऽल्पतरबन्धः । सप्तदशविधात् त्रयोदशविधं गतस्य द्वितीयस्ततोऽपि नवविधं गतस्य तृतीय इत्येवं तावन्नेयम्, यावद् द्विविधबन्धादेकविधबन्धं गतस्याष्टमोऽल्पतरबन्धः ।
ननु द्वाविंशतिबन्धादेकविंशतिगमनेन नवमोऽल्पतरबन्धः कस्मान्नोक्त इति चेत् ? नैवम्, असम्भवादेव, तथाहि द्वाविंशतिं मिथ्यादृष्टिरेव बध्नात्येकविंशतिं तु सास्वादन एवेत्युक्तं, न च मिथ्यादृष्टिरनन्तरभावेन सास्वादनत्वं व्रजति । येन द्वाविंशतेरेकविंशतिगमनं स्यात्, किन्तूपशमसम्यग्दृष्टिरेव सास्वादनभावं प्रतिपद्यते, तस्माद् द्वाविंशतेः सप्तदशबन्धगमनमेव भवतीत्यष्टावेवाल्पतरबन्धाः । अवक्तव्यकबन्धौ तु द्वौ भवतः । यदा ह्युपशान्ताद्धाक्षयेण प्रतिपत्य पुनरेकं सञ्ज्वलनलोभं बध्नाति तदाद्यसमये प्रथमोऽवक्तव्यकबध्नः । अऽथोपशान्तमोहावस्थायामेवायुः क्षयेण मृत्वाऽनुत्तरसुरेषूत्पद्यते, तदाऽद्यसमय एव
गा.-४३
१४२