SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ K गा.-४३ बन्धशतकप्रकरणम् AA एतच्चतुर्विधं सूक्ष्मसम्परायं यावद् बध्यते । ततः कस्यचित्पुनरपि प्रतिपत्य षड्विधं बनत आद्यसमये प्रथमो भूयरस्कारबन्धरततोऽपि प्रतिपत्य नवविधं बनत आद्यसमये द्वितीयो भूयस्कारबन्धोऽत्र च नवविधादिषु त्रिष्वपि बन्धस्थानेषु द्वितीयादिसमयेषु तदेव बनतोऽवस्थितबन्ध इति त्रयोऽवस्थितबन्धाः, यदा तूपशान्तमोहावस्थायां दर्शनावरणप्रकृतीनां सर्वथाऽबन्धको भूत्वा पुनरद्धाक्षयेणेहैव प्रतिपत्य चतुर्विधं बध्नाति, तदाद्यसमयेऽवक्तव्यकबन्धो भूयस्काराधुचितलक्षणायोगात् भूयस्कारादिभिर्विकल्पैर्वक्तुं न शक्यन्त इति कृत्वा, द्वितीयादिसमयेषु त्वत्राप्यवस्थितबन्धः । यदा तूपशान्तमोहावस्थायामेवायुः क्षयेणानुत्तरसुरेषूत्पद्यते तदा तत्र प्रथमसमय एव षड्विधं बनतो द्वितीयोऽवक्तव्यकबन्धो द्वितीयादिसमयेषु त्ववस्थितबन्धः, तदेवमत्र द्वौ भूयरस्कारबन्धौ द्वावल्पतरबन्धौ द्वावक्तव्यकबन्धौ अवस्थितबन्धास्तु गणनया षड् भवन्तोऽपि बन्धस्थानानि त्रीण्येवेति तद्भेदा स्त्रय एव भवन्ति । मोहनीयस्योत्तरप्रकृतिबन्धस्थानानि दशाऽमूनि भवन्ति । २२। २१॥ १७॥ १३॥ ९। ६।४। ३। २॥ १। तत्र मिथ्यात्वं, षोडश कषायाः, अन्यतर एको वेदो, हास्यरतियुगलारतिशोकयुगलयोरन्यतरद्युगलं भयं जुगुप्सेत्येतद् द्वाविंशतिविधं मिथ्यादृष्टिरेव बध्नाति । एषैव द्वाविंशतिमिथ्यात्वरहिता एकविंशतिर्भवति, नवरं वेदः स्त्रीपुंवेदयोरन्यतरो वाच्यः, तां च सास्वादन एव बध्नाति । अनन्तानुबन्धिचतुष्टयवा द्वादश कषायाः पुंवेद: पूर्वोक्तयुगलद्वयेऽन्यतरद्युगलं भयं जुगुप्सा चेत्येताः सप्तदश । एतद्बन्धश्च मिश्राविरतयोरेव भवति । ता एवाप्रत्याख्यानावरणचतुष्टवास्त्रयोदश भवन्ति । तद्बन्धश्च देशविरतस्य एव भवति । ता एव प्रत्याख्यानावरणचतुष्टयवा नव प्रमत्तो बन्धात्यप्रमत्तापूर्वकरणावप्येता एव बन्धीतः, नवरं १४१ AAA
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy