SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ गा.-४३ बन्धशतकप्रकरणम् साम्प्रतमुत्तरप्रकृतिषु बन्धस्थानानि । तेषु च यथासम्भवं भूयस्कारादीनाह तिन्नि दस अट्ठणाणि दंसणावरणमोहनामाणं । एत्थ य भूओगारो सेसेसेगं हवइ ठाणं ॥४३॥ इह दर्शनावरणस्योत्तरप्रकृतीनां त्रीणि बन्धस्थानानि भवन्ति, मोहस्य दश, नाम्नोऽष्टाविति यथासङ्ख्यं सम्बन्धः । एष्वेव च त्रिषु कर्मसु 'भूओगारो'त्ति लुप्तस्यादिशब्दस्य दर्शनाद्भूयस्कारादयश्चत्वारोऽपि बन्धविकल्पा भवन्ति । तदुक्तम् भूयोगारग्गहणे गहिया सेसा हवंति चत्तारि । सुत्ते तालपलंबे लुत्तो जह आदिसहो उ ॥१॥ कथमिति चेत् ? उच्यते-दर्शनावरणोत्तरप्रकृतीनां तावदमूनि त्रीणि बन्धस्थानानि, नवविधं षड्विधं चतुर्विधं चेति । तत्र निद्रापञ्चकं चक्षुरचक्षुरवधिकेवलदर्शनावरणचतुष्टयं चेत्येतन्नवविधं, एतच्च सास्वादनं यावद् बध्यते, ततः परं स्त्यानद्धित्रिकस्य बन्धो व्यवच्छिद्यते, अतो मिश्रादिषु शेषं षड्विधं बनत आद्यसमये प्रथमोऽल्पतरबन्धः । एतच्च षड्विधमपूर्वकरणसङ्ख्येयभागं यावद् बध्नाति । ततः परं निद्राद्विकस्य बन्धे व्यवच्छिन्ने शेषं चतुर्विधं बनत आद्यसमये द्वितीयोऽल्पतरबन्धः । १. भूयस्कारग्रहणे गृहीताः शेषा भवन्ति चत्वारि । सूत्रे तालपलम्बे लुप्तः यथाऽऽदिशब्दस्तु ॥१॥ १४०
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy