________________
बन्धशतक
गा.-४३
प्रकरणम्
सप्तदशविधं बनतो द्वितीयोऽवक्तव्यकबन्धः । दशस्वपि मोहनीयबन्धस्थानेषु द्वितीयादिसमयेष्ववस्थितबन्धो लभ्यत | इत्यवस्थितबन्धा दश । तदेवं
नव भूयगारबंधा अद्वैव य हुँति अप्पतरबंधा । दो अव्वत्तगबंधा अवट्ठिया दस उ मोहम्मि ॥१॥ नाम्नोऽष्टौ बन्ध स्थानान्यमूनि । २३॥ २५॥ २६॥ २८॥ २९॥ ३०॥ १॥ तत्र तैजसं कार्मणं वर्णादिचतुष्कं अगुरुलघूपघातं | निर्माणमित्येता नव प्रकृतयो ध्रुवबन्धिन्यः सर्वैरपि चतुर्गतिकजीवैरप्राप्तविशिष्टगुणैः प्रतिसमयमवश्यं बध्यमानत्वात्, तथा तिर्यग्गतिस्तिर्यगानुपूर्वी एकेन्द्रियजाति: औदारिकशरीरं हुण्डसंस्थानं स्थावरं बादरसूक्ष्मयोरन्यतरत् अपर्याप्तकं प्रत्येकसाधारणयोरन्यतरत् अस्थिरम् अशुभम् दुर्भगम् अनादेयं अयशः कीर्तिरित्येताश्चतुर्दश प्रकृतयो ध्रुवबन्धिनीभिर्नवभिः सह त्रयोविंशतिर्भवत्येतां चैकद्वित्रिचतुःपञ्चेन्द्रियाणामन्यतरो मिथ्यादृष्टिरेवापर्याप्तैकेन्द्रियप्रायोग्यं बध्नाति, पञ्चविंशतिं पुनः पर्याप्तैकेन्द्रियप्रायोग्यां तत्रोत्पादयोग्या नाना जीवा बध्नन्ति । तत्र च त्रयोविंशतिः पूर्वोक्तैव पराघातोच्छासाभ्यां सह पञ्चविंशतिर्भवति । नवरमपर्याप्तकस्थाने पर्याप्तकं, स्थिरास्थिरशुभाशुभयश:कीर्त्ययश:कीर्तीनां परावृत्तिर्वाच्या । एवमेषा पञ्चविंशतिरन्येषामपि विकलेन्द्रियादिजीवानां प्रायोग्या नानाभङ्गैः सम्भवति, केवलं ग्रन्थविस्तरभयात् परस्थानत्वाच्च नेहोच्यते, सप्ततिकायां च तद्विस्तरोऽन्वेषणीयः । एवमुत्तरेष्वपि बन्धस्थानेषु गमनिकामात्रमेवाभिधास्यत इति । एषैव पञ्चविंशतिरात
१. नव भूयस्कारबन्धा अष्टौ एव भवन्त्यल्पतरबन्धाः । द्वौ अवक्तव्यकबन्धौ अवस्थिता दशैव मोहे ॥१॥
१४३