SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् चत्वारि भवन्ति, तद्यथा - एकविधस्य बन्धः षड्विधस्य सप्तविधस्य अष्टविधस्य च । इह चोक्तलक्षणा भूयस्कारबन्धास्त्रयोऽल्पतरबन्धा अपि त्रयो भवन्ति, तद्यथा - आयुर्बन्धकालेऽष्टविधं बद्ध्वा पुनरप्यायुर्बन्धोपरमे सप्तविधं बध्नत आद्यसमये प्रथमोऽल्पतरबन्धो द्वितीयादिसमयेषु त्ववस्थितबन्धः । सप्तविधबन्धादपि सूक्ष्मसम्परायावस्थायां षड्विबन्धगतस्याद्यसमये द्वितीयोऽल्पतरबन्धो द्वितीयादिसमयेषु त्ववस्थितबन्धः । षड्विधबन्धादप्युपशान्तमोहाद्यवस्थायामेकविधबन्धगतस्याद्यसमये तृतीयोऽल्पतरबन्धो द्वितीयादिसमयेषु त्ववस्थितबन्ध इति त्रयोऽल्पतरबन्धाः । एकविधं च बद्ध्वा उपशान्तमोहावस्थातः प्रतिपत्य सूक्ष्मसम्पराये पुनः षड्विधं बध्नत आद्यसमये प्रथमो भूयस्कारबन्धो द्वितीयादिसमयेषु त्ववस्थितबन्धस्ततोऽप्यधस्तात् प्रतिपत्य सप्तविधं बध्नत आद्यसमये द्वितीयो भूयस्कारबन्धो द्वितीयादिसमयेषु त्ववस्थितबन्धः । आयुर्बन्धका त्वष्टविधबन्धगतस्याद्यसमय एव तृतीयो भूयस्कारबन्धो द्वितीयादिसमयेषु त्ववस्थितबन्ध इति त्रयो भूयस्कारबन्धाः । ' एवं 'ति यथा भूयस्काराल्पतरबन्धाववगतावेवं मूलप्रकृतिषु विषये यान्येकविधबन्धादीनि चत्वारि बन्धस्थानानि । तेषु चतुर्ष्वपि बन्धस्थानेष्ववस्थितो भवति, ज्ञातव्योऽवस्थितबन्धश्चतुर्विधोऽपि बोद्धव्यश्च इत्यर्थः । चतुर्ष्वपि बन्धस्थानेषु द्वितीयादिसमयेषु तस्यावश्यंभावित्वात् । स च भूयस्काराल्पतरभणनप्रसङ्गाद्भावित एव, अवक्तव्यक्तबन्धस्तु मूलप्रकृतिषु न भवतीत्युक्तमेवेति गाथार्थः ॥४२॥ भा० इन्हि मूलपयडिबंधस्स य चत्तारि हुति ठाणाणि । एगविहछविहसगविहअडविहबंधाभिहाणाणि ॥ २३६ ॥ गा. ४२ १३८
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy