________________
बन्धशतक प्रकरणम्
चत्तारि पगइठाणाणि तिन्नि भूगारअप्पतरगाणि । मूलपगडीस एवं अवट्ठिओ चउसु नायव्वो ॥४२॥
इह पूर्वं तावद्भूयस्कारादीनां स्वरूपमुच्यते तत्रैकविधाद्यल्पतरबन्धको भूत्वा यत्र पुनरपि षड्विधादिबहुविधबन्धको ॐ भवति, स प्रथमसमये भूयस्कारबन्धः । यत्र त्वष्टविधादिबहुविधबन्धको भूत्वा पुनरपि सप्तविधाद्यल्पतरबन्धको भवति स प्रथमसमय एवाल्पतरबन्धः । यत्र तु प्रथमसमये एकविधादिबन्धको भूत्वा द्वितीयसमयादिष्वपि तावन्मात्रमेव बध्नाति सोऽवस्थितबन्धः । यत्र तु सर्वथाऽबन्धको भूत्वा पुनः प्रतिपत्य बन्धको भवति, असावाद्यसमयेऽवक्तव्यकबन्धो, अयं तूत्तरप्रकृतीनामेव भवति, न मूलप्रकृतीनां तासां सर्वथाऽबन्धकस्यायोगिकेवलिनः सिद्धस्य वा प्रतिपाताभावेन पुनर्बन्धाभावात्, तदेवमसौ चतुर्धा बन्धो भवति । तदुक्तम्
'एकादहिगे पढमो एक्कादीऊणगम्मि बीओ य । तत्तियमेत्ते तइओ पढमे समये अवत्व्व ॥१॥
सूत्रेऽपि दृश्यते असौ, केवलं प्रक्षेपगाथेति । इदानीं प्रकृतगाथार्थः प्रस्तूयते, तत्र मूलप्रकृतिबन्धस्थानानि पूर्वोक्तस्वरूपाणि १. एकादधिके प्रथमः एकाद्युनके द्वितीयश्च । तावन्मात्रस्तृतीयः प्रथमे समयेऽवक्तव्यः ||१|| २. सूत्रेऽति प्र. ।
गा. ४२
१३७