SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् चत्वार्यायुंषि, चतस्रो गतयः, पञ्च जातयः, औदारिकवैक्रियाहारकशरीराणि त्रीणि, षट् संस्थानानि, त्रीण्यङ्गोपाङ्गानि, षट् संहननानि, चतस्त्र आनुपूर्व्य, पराघातम्, उच्छासम्, आतपम्, उद्योतं, विहायोगतिद्वयं, त्रसादिविंशतिः तीर्थङ्करम्, उच्चैर्गोत्रं, नीचैर्गोत्रं चेति । एतासु च मध्ये सातासातस्त्रीपुंनपुंसकवेदौदारिकवैक्रियाद्याः प्रकृतयस्तावत्परस्परविरुद्धत्वात् युगपन्न बध्यन्त इति परावर्त्तमाना उच्यन्ते । पराघातोच्छ्वासनाम्नी तु पर्याप्तकनाम्नैव सह बध्येते, नापर्याप्तकनाम्नेति तयोः परावर्त्तमानता । आतपं त्वेकेन्द्रियप्रायोग्यबन्धेनैव सह बध्यते नान्यदा, उद्योतं पुनस्तिर्यग्गतिसहचरितमेव बध्यते नान्यदेति तयोः परावर्त्तमानता । तीर्थकराहारके तु यथाक्रमं सम्यक्त्वसंयमगुणवन्त एव बध्नन्ति नापरे, इत्यनयोरपि परावर्त्तमानता । तदेवमेताः परावर्त्तमानास्त्रिसप्ततिप्रकृतयो ध्रुवबन्धिनीभ्यः शेषा उद्धरिता बन्धमाश्रित्य सादिका अध्रुवाश्च भवन्ति, नियतकाल एव बध्यमानत्वात् सादिरेतासां बन्धोऽध्रुवबन्धित्वादेव जातोऽपि पुनर्निवर्त्तन्त इत्यध्रुव इति तात्पर्यमिति गाथार्थः ॥४१॥ भा० एत्तोत्तरासु सायाइवन्नणं तत्थ ताव धुवअधुवा । जहसंखं सगचत्ता तिवत्तरी विय इमा ताओ ॥ २२० ॥ धुवबंधी भय कुच्छा कसाय मिच्छंतराय आवरणा । वन्नचउ तेयकम्मा गुरुलहु निमिणोवघाया य ॥२२९॥ अधुवुरलविउवहारग गइ जाई खगइ आणुपुव्वी य । संघयणागी तसवीसुस्सासं तित्थायवज्जोयं ॥२२२॥ परघाय वेयणीयाउ गोय हासाइदुजुयल तिवेयं । इयपयडीओ भणिया तेवत्तरि अधुवबंधा उ ॥२२३॥ तत्थ धुवाणं बंधो चव्विगप्पो जहा उ पणनाणा । विग्घपण दंसचउगं इगदसमगुणी न बंधे ॥ २२४ ॥ गा. ४१ १३५
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy