________________
बन्धशतक प्रकरणम्
एतासां सप्तचत्वारिंशतो ध्रुवबन्धिनीनां प्रकृतीनां साद्याद्याश्चत्वारोऽपि विकल्पा प्राप्यन्ते । तत्र ज्ञानावरणपञ्चकचक्षुरचक्षुरवधिकेवलदर्शनचतुष्टयान्तरायपञ्चकलक्षणानां चतुर्दशप्रकृतीनां सूक्ष्मसम्परायचरमसमये व्यवच्छिन्नबन्धानामुप| शान्तमोहोऽबन्धको भूत्वा पुनरपि प्रतिपततो यदैता बध्नाति, तदैतासां सादिबन्धः । उपशान्तमोहगुणस्थानं चाप्राप्तपूर्वाणां पूर्वोक्तहेतुतोऽनादिध्रुवा ध्रुवौ यथासङ्ख्यमभव्यभव्यापेक्षया पूर्ववद्वक्तव्यौ । सञ्ज्वलनचतुष्टयस्य त्वनिवृत्तिबादरे बन्धव्यव्यछेदं कृत्वोपरि गत्वा पुनः प्रतिपतितस्य जन्तोस्तानेव बध्नतः सादिस्तद्बन्धस्तच्च स्थानमप्राप्तपूर्वस्यानादिः । ध्रुवाभ्रुवौ यथाक्रममभव्यभव्ययोः पूर्ववद्वाच्यौ । निद्राप्रचलातैजसकार्मणवर्णगन्धरसस्पर्शागुरुलघूपघातनिर्माणभयजुगुप्सालक्षणानां त्रयोदशानां प्रकृतीनामपूर्वकरणे यथास्थानं बन्धव्यवच्छेदं कृत्वोपरि गत्वा प्रतिपत्य पुनस्ता एव बध्नतः सादिस्तद्बन्धः शेषास्त्वनाद्यादयः पूर्ववद्भाव्याः । चतुर्णां प्रत्याख्यानावरणानां देशविरतसम्यग्दृष्टौ बन्धव्यवच्छेदं कृत्वोपरि गत्वा प्रतिपत्य पुनस्तानेव बध्नतः सादिस्तद्बन्धः, शेषास्त्रयः पूर्ववत् । अप्रत्याख्यानावरणानां चतुर्णामविरतसम्यग्दृष्टौ बन्धव्यवच्छेदस्तदुपरि च देशविरतादौ गत्वा पुनः प्रतिपत्य तानेव बध्नतः सादिः, शेषास्त्रयः पूर्ववत् । स्त्यानर्द्धित्रिकमिथ्यात्वानन्तानुबन्धिनां मिथ्यादृष्टिः सम्यक्त्वमवाप्याबन्धको भूत्वा प्रतिपत्य च यदा पुनस्तानेव बध्नाति, तदैतद्बन्धः सादिः शेषास्त्वनाद्यादयः पूर्ववद्भाव्या इति । 'साई अद्भुवियाओ सेसा परियत्तमाणीओ त्ति परावर्त्यन्तेऽपरस्याः प्रकृतेर्बन्धारम्भेण बध्नान्निवर्त्यते इति परावर्त्तमानाः, परावृत्त्य | विमुच्य पुनः पुनर्बध्यन्त इत्यर्थः, ताश्च त्रिसप्ततिर्भवति । तद्यथा - सातासाते, वेदत्रयं, हास्यरतियुगलं, अरतिशोकयुगलं,
गा. ४१
१३४