________________
गा.-४१
बन्धशतकप्रकरणम्
अंतमुहुत्ता उवरि बंधाभावाउ अधुवबंधो त्ति । न धुवो अओ य भणियं अणाइधुवसेसओ आऊ ॥२१९॥ इदानीमुत्तरप्रकृतिबन्धमाश्रित्य साद्यादिप्ररूपणामाह
उत्तरपगईसु तहा धुवियाणं बंधचउविगप्पो य ।
साई अद्धवियाओ सेसा परियत्तमाणीओ ॥४१॥ तथेति समुच्चये यथा मूलप्रकृतीनां साद्यादिप्ररूपणा प्रोक्ता, तथोत्तरप्रकृतीनामपि वक्तव्येत्यर्थः, तत्रोत्तरप्रकृतिषु मध्ये - ध्रुवोऽव्यवच्छिन्नो बन्धो यासां ता ध्रुवबन्धिन्यः, स्वस्वबन्धव्यवच्छेदादर्वाग् याः सततं बध्यन्ते न पुनः कदाचित्परावर्त्तन्ते, ता ध्रुवबन्धिन्यस्ताश्च सप्तचत्वारिंशद्भवन्ति, तद्यथा-ज्ञानावरणानि पञ्च, दर्शनावरणानि नव, मिथ्यात्वं, षोडश कषायाः, भयं, जुगुप्सा, तैजसकार्मणवर्णगन्धरसस्पर्शागुरुलघूपघातनिर्माणानि, अन्तरायाणि पञ्चेति । तदुक्तम्
'नाणंतरायदसगं दंसणनवमिच्छ सोलस कसाया । भयदुर्गच्छानिम्माण अगुरुवण्णाइउवधायं ॥१॥ तेयाकम्मं च इमा सीयालीसं हवंति धुवबंधा । तेवत्तरि पगईओ सेसाओ अधुवबंधाओ ॥२॥ त्ति
१. ज्ञानान्तरायदशकं दर्शननव मिथ्यात्वं षोडशकषायाः । भयदुर्गच्छानिर्माणागुरुलघुवर्णादिधुपघातम् ॥१॥ २. तैजसकार्मणं चेमाः सप्तचत्वारिंशत् भवन्ति ध्रुवबन्धिन्यः । त्रिसप्ततिः प्रकृतयः शेषास्त्वध्रुवबंधिन्य इति ॥२।।
१३३